मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४, ऋक् ४

संहिता

अ॒स्य र॒ण्वा स्वस्ये॑व पु॒ष्टिः संदृ॑ष्टिरस्य हिया॒नस्य॒ दक्षो॑ः ।
वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो॑ दोधवीति॒ वारा॑न् ॥

पदपाठः

अ॒स्य । र॒ण्वा । स्वस्य॑ऽइव । पु॒ष्टिः । सम्ऽदृ॑ष्टिः । अ॒स्य॒ । हि॒या॒नस्य॑ । धक्षोः॑ ।
वि । यः । भरि॑भ्रत् । ओष॑धीषु । जि॒ह्वाम् । अत्यः॑ । न । रथ्यः॑ । दो॒ध॒वी॒ति॒ । वारा॑न् ॥

सायणभाष्यम्

अस्याग्नेः पुष्टिः शरीरवृद्धिः रण्वारमणीयाशब्दयुक्तावा तत्रदृष्टान्तः—स्वस्यपुष्टिरिवयथालोके स्वकीयापुष्टिः स्वस्मैरमणीयाभवतितद्वत् यद्वास्याग्नेःसंबन्धिनीपुष्टिः यथायजमानविषयारण्वातद्वत् किञ्च हियानस्यसमृद्धिंगच्छतोव्याप्नुवतोधक्षोः काष्ठान् दिधक्षोःदग्धुमिच्छोरस्याग्नेः सन्दृष्टिः सन्द- र्शनाविर्भावोपिरण्वा योग्निरोषधीषुकाष्ठेषुजिह्वांज्वालां जात्येकवचनं ज्वालाः विभरिभ्रत् अत्य- र्थंविहिरतिकम्पयतीत्यर्थः हरतेर्यङ् लुगन्तत्वेनदाधर्त्यादिषुनिपातिताल्लेट्यडागमः यद्योगादनि- घातः तत्रदृष्टान्तः—रथ्योरथार्होऽत्योन वाजीयथा वारान् दंशवारणसाधनान् बालान् दोधवीति कम्पयतितद्वत् योग्निर्ज्वालाःकम्पयति अस्याग्नेःपुष्टिःरण्वेति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४