मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ६, ऋक् २

संहिता

अ॒या ते॑ अग्ने विधे॒मोर्जो॑ नपा॒दश्व॑मिष्टे ।
ए॒ना सू॒क्तेन॑ सुजात ॥

पदपाठः

अ॒या । ते॒ । अ॒ग्ने॒ । वि॒धे॒म॒ । ऊर्जः॑ । न॒पा॒त् । अश्व॑म्ऽइष्टे ।
ए॒ना । सु॒ऽउ॒क्तेन॑ । सु॒ऽजा॒त॒ ॥

सायणभाष्यम्

हेअग्ने तेत्वां अयाअनयाआहुत्याविधेम परिचरेम हेऊर्जोनपात् बलस्यनप्तः तस्यनपातयितर्वा हेअश्वमिष्टेव्यापकयज्ञ यद्वा आशुक्रियमाणंकर्माश्वंतदिच्छतीतिअश्वमिष्टिः संत्वरमाणाह्युपसदाच- रन्ति तेकर्मभिःसमत्वरन्ततेतिस्रः सामिधेनीरनूच्यतिस्रोदेवताअयजन्नितिब्राह्मणम् । तादृशाग्ने तेत्वांअनयाहुत्याविधेमपरिचरेमतथाहेसुजातशोभनजननएनाएतेनसूक्तेनस्तोत्रेणप्रीणयेमेतिशेषः यद्वा स्तुत्युपबृंहितेनविधेम ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७