मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ६, ऋक् ७

संहिता

अ॒न्तर्ह्य॑ग्न॒ ईय॑से वि॒द्वाञ्जन्मो॒भया॑ कवे ।
दू॒तो जन्ये॑व॒ मित्र्य॑ः ॥

पदपाठः

अ॒न्तः । हि । अ॒ग्ने॒ । ईय॑से । वि॒द्वान् । जन्म॑ । उ॒भया॑ । क॒वे॒ ।
दू॒तः । जन्या॑ऽइव । मित्र्यः॑ ॥

सायणभाष्यम्

हेकवे मेधाविन्नग्ने अन्तर्जनानांत्दृदयेईयसेहि गच्छसिजानासिवा हिः सहोतासेदुदूत्यंचिकित्वाँ- अंतरीयसइत्यादिमन्त्रान्तरप्रसिद्धिद्योतनार्थः कीदृशस्त्वं उभयाउभयविधानिजन्मजन्मानि यष्टॄणां- यजमानानांयष्टव्यानांदेवनांचसंबन्धीनि विद्वान् जानन् सन् ईयसइतिसंबन्धः तत्रदृष्टान्तः—जन्यो- जनेभ्योहितः मित्र्योविशेषेणमित्रेभ्योहितोदूतइव सयथप्रजानांचित्तवृत्तिज्ञानायराज्ञाप्रेरितः तासां- मनोजानातितद्वत् त्वमप्यस्माकमन्तरीयसइत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७