मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् २

संहिता

इ॒मं स्तोमं॒ सक्र॑तवो मे अ॒द्य मि॒त्रो अ॑र्य॒मा वरु॑णो जुषन्त ।
आ॒दि॒त्यास॒ः शुच॑यो॒ धार॑पूता॒ अवृ॑जिना अनव॒द्या अरि॑ष्टाः ॥

पदपाठः

इ॒मम् । स्तोम॑म् । सऽक्र॑तवः । मे॒ । अ॒द्य । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । जु॒ष॒न्त॒ ।
आ॒दि॒त्यासः॑ । शुच॑यः । धार॑ऽपूताः । अवृ॑जिनाः । अ॒न॒व॒द्याः । अरि॑ष्टाः ॥

सायणभाष्यम्

इमंमेस्मदीयंस्तोमंस्तोत्रंसक्रतवः समानक्रमाणःसमानप्रज्ञावामित्रादयः अद्येदानींजुषन्त जुषन्ताम् सेवन्ताम् कीदृशास्तेआदित्यासः अदितेःपुत्राःशुचयोदीप्यमानाः धारपूताः उदकधाराभिः क्षालिताइवपूताः निर्मलाइत्यर्थः अवृजिनाः वृजीवर्जने अवर्जितारः सर्वानुग्राहकाइत्यर्थः अनवद्याः अवद्येनगर्ह्येणपापेनरहिताः अरिष्टाः केनाप्यहिंसिताः ॥ २ ॥ तस्मिन्नेवपशौतआदित्यासइतिहविषोनुवाक्या सूत्रंतुपूर्वमेवोदाहृतम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः