मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् १३

संहिता

शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ ।
नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ ॥

पदपाठः

शुचिः॑ । अ॒पः । सु॒ऽयव॑साः । अद॑ब्धः । उप॑ । क्षे॒ति॒ । वृ॒द्धऽव॑याः । सु॒ऽवीरः॑ ।
नकिः॑ । तम् । घ्न॒न्ति॒ । अन्ति॑तः । न । दू॒रात् । यः । आ॒दि॒त्याना॑म् । भव॑ति । प्रऽनी॑तौ ॥

सायणभाष्यम्

सयजमानः शुचिर्दीप्यमानः शुद्धोवाअदब्धः सपत्नैरबाधितः वृद्धवयाः प्रभूतान्नः सुवीरः शोभ- नपुत्रश्चसन् सूयवसाः शोभनसस्यान्यपः वृष्टिलक्षणान्युदकानिउपक्षेति उपनिवसति सर्वदासुसस्या नामपांचसमीपेनिवसतीत्यर्थः तथानकिर्नचतंघ्नन्तिहिंसन्ति अंतितोनअन्तिकात्समीपदेशाच्चदूराद्वि- प्रकृष्टाच्चदेशादागताबाधकाः अन्तिकस्यतसिलादिलोपइतिलोपः योयजमानः आदित्यानांअदितेः पुत्राणां मित्रादीनां प्रणीतौ प्रकृष्टेनयनेप्रापणे भवति वर्ततेसइतिपूर्वत्रसंबन्धः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः