मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् १४

संहिता

अदि॑ते॒ मित्र॒ वरु॑णो॒त मृ॑ळ॒ यद्वो॑ व॒यं च॑कृ॒मा कच्चि॒दागः॑ ।
उ॒र्व॑श्या॒मभ॑यं॒ ज्योति॑रिन्द्र॒ मा नो॑ दी॒र्घा अ॒भि न॑श॒न्तमि॑स्राः ॥

पदपाठः

अदि॑ते । मित्र॑ । वरु॑ण । उ॒त । मृ॒ळ॒ । यत् । वः॒ । व॒यम् । च॒कृ॒म । कत् । चि॒त् । आगः॑ ।
उ॒रु । अ॒श्या॒म् । अभ॑यम् । ज्योतिः॑ । इ॒न्द्र॒ । मा । नः॒ । दी॒र्घाः । अ॒भि । न॒श॒न् । तमि॑स्राः ॥

सायणभाष्यम्

उतअपिच हेअदिते मित्र वरुण आमन्त्रितंपूर्वमविद्यमानवदिति पूर्वपूर्वस्यामन्त्रितस्याविद्यमा नवद्भावात् सर्वेषांषाष्ठिकमामन्त्रितस्येत्याद्युदात्तत्वम यूयंप्रत्येकंमृळ अस्माकमुपरिदयांकुरु रक्षेत्य- र्थः यत् यद्यपिवयंवोयुष्माकंकच्चित् किञ्चदागापराधंचकृम अकर्मतथापिमृळेत्यर्थः हेइन्द्र परमैश्व- र्योपेतादित्य उरुविस्तीर्णंअभयंभयरहितंज्योतिस्त्वदीयंप्रकाशंज्ञानात्मकंवाअश्यां अहंप्राप्नुयाम् दीर्घाविस्तृतास्तमिस्रास्तमसायुक्तानिशाः ज्योत्स्नातमिस्राशृङ्गिणेतिनिपात्यते तानोस्मान् माभिनशन् आभिमुख्येनव्याप्नुवन्तु ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः