मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २८, ऋक् ३

संहिता

तव॑ स्याम पुरु॒वीर॑स्य॒ शर्म॑न्नुरु॒शंस॑स्य वरुण प्रणेतः ।
यू॒यं नः॑ पुत्रा अदितेरदब्धा अ॒भि क्ष॑मध्वं॒ युज्या॑य देवाः ॥

पदपाठः

अव॑ । स्या॒म॒ । पु॒रु॒ऽवीर॑स्य । शर्म॑न् । उ॒रु॒ऽशंस॑स्य । व॒रु॒ण॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः ।
यू॒यम् । नः॒ । पु॒त्राः॒ । अ॒दि॒तेः॒ । अ॒द॒ब्धाः॒ । अ॒भि । क्ष॒म॒ध्व॒म् । युज्या॑य । दे॒वाः॒ ॥

सायणभाष्यम्

हेप्रणेतः सर्वस्यजगतः प्रकर्षेणनेतः वरुण पुरुवीरस्यपुरुभिर्बहुभिःवीरैरुपेतस्य यद्वा पुरूणांबहूनां शत्रूणांविशेषेणप्रेरकस्य उरुशंसस्यउरुभिर्बहुभिः स्तूयमानस्यतवशर्मन् शर्मणिसुखेगृहेवा स्याम अ- दितेः पुत्राः मित्रादयः परमपिच्छन्दसीतिपरस्यषष्ठ्यन्तस्यपूर्वामन्त्रिताङ्गवद्भावेनानुप्रवेशात् पदद्वयसमुदायस्याष्टमिकंसर्वानुदात्तत्वम् अदब्धाशत्रुभिरहिंसिताः एवंभूताहेदेवाः यूयंनोस्मान् कृता पराधान् युज्यायसख्यायअभिक्षमध्वं अस्माभिःकृतमपराधंसहध्वम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः