मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २९, ऋक् २

संहिता

यू॒यं दे॑वा॒ः प्रम॑तिर्यू॒यमोजो॑ यू॒यं द्वेषां॑सि सनु॒तर्यु॑योत ।
अ॒भि॒क्ष॒त्तारो॑ अ॒भि च॒ क्षम॑ध्वम॒द्या च॑ नो मृ॒ळय॑ताप॒रं च॑ ॥

पदपाठः

यू॒यम् । दे॒वाः॒ । प्रऽम॑तिः । यू॒यम् । ओजः॑ । यू॒यम् । द्वेषां॑सि । स॒नु॒तः । यु॒यो॒त॒ ।
अ॒भि॒ऽक्ष॒त्तारः॑ । अ॒भि । च॒ । क्षम॑ध्वम् । अ॒द्य । च॒ । नः॒ । मृ॒ळय॑त । अ॒प॒रम् । च॒ ॥

सायणभाष्यम्

हेदेवाः प्रमतिः प्रकृष्टामतिर्यस्यपित्रादेस्तादृशोपियूयमेव तथाओजोबलयपियूयमेव अपिचयूयंद्वे- षांसिद्वेष्टृणि रक्षःपिशाचादीनि सनुतरित्यव्ययम् अन्तर्हितनामैतत् अन्तर्हितेप्रदेशेयुयोतपृथक्कुरुत युमिश्रणामिश्रणयोः छान्दसःशपःश्लुः पूर्ववत्तस्यतबादेशः अभिक्षत्तारः अभितः शत्रूणांहिंसितारोयू- यं अभिचक्षमध्वं अभिभवतचशत्रून् अद्यास्मिन्दिनेचनोस्मान् मृळयत सुखयत अपरंचअपरमपिका- लं आगामिन्यपिकाले अस्मान्मृळयत ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११