मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २९, ऋक् ६

संहिता

अ॒र्वाञ्चो॑ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् ।
त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्ताद॑व॒पदो॑ यजत्राः ॥

पदपाठः

अ॒र्वाञ्चः॑ । अ॒द्य । भ॒व॒त॒ । य॒ज॒त्राः॒ । आ । वः॒ । हार्दि॑ । भय॑मानः । व्य॒ये॒य॒म् ।
त्राध्व॑म् । नः॒ । दे॒वाः॒ । नि॒ऽजुरः॑ । वृक॑स्य । त्राध्व॑म् । क॒र्तात् । अ॒व॒ऽपदः॑ । य॒ज॒त्राः॒ ॥

सायणभाष्यम्

हेयजत्राः यष्टव्यादेवाः अद्येदानीमर्वाञ्चोस्मदभिमुखाभवत वोयुष्माकंहार्दिहृद्यवस्तितंरक्षणंभ- यमानोबिभ्यदहंआव्ययेयं आभिमुख्येनप्राप्नुयाम् व्ययगतौ भौवादिकः हेदेवाः वृकस्यतस्करस्य आर- ण्यशुनोवा संबन्धिनः निजुरोनिहननात् जुरीहिंसार्थः अस्मात्संपदादिलक्ष्णोभावेक्विप् छान्द सोह्रस्वः नोस्मान् त्राध्वं त्रायध्वम् तथा हेयजत्राः अवपदःआपदः कर्तात् कर्तुः सकाशात् त्राध्वं त्रा- यध्वम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११