मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् ४

संहिता

अव॑र्धयन्त्सु॒भगं॑ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा ।
शिशुं॒ न जा॒तम॒भ्या॑रु॒रश्वा॑ दे॒वासो॑ अ॒ग्निं जनि॑मन्वपुष्यन् ॥

पदपाठः

अव॑र्धयन् । सु॒ऽभग॑म् । स॒प्त । य॒ह्वीः । श्वे॒तम् । ज॒ज्ञा॒नम् । अ॒रु॒षम् । म॒हि॒ऽत्वा ।
शिशु॑म् । न । जा॒तम् । अ॒भि । आ॒रुः॒ । अश्वाः॑ । दे॒वासः॑ । अ॒ग्निम् । जनि॑मन् । व॒पु॒ष्य॒न् ॥

सायणभाष्यम्

सप्त सर्पणशीलाः यह्वीर्यह्व्यः महत्योनद्यः सुभगं शोभनधनं श्वेतंशुभ्रं जज्ञानं जातं महित्वामहत्त्वेन अरुषमारोचमानं अप्सुस्थितमग्निंअवर्धयन् स्वकार्यभूताभिरोषधीभिर्वृद्धिं प्रापितवत्यः यद्वा दिव्यमग्निं अपोवर्धयन्ति अबिन्धनत्वात्तस्य किञ्च शिशुंनजातं यथाजातं शिशुंअश्वाः वडवाः अभ्यारुः अभिगच्छन्ति तथानद्यः उत्पन्नमग्निं अभ्यारुः अभिजग्मुः अपि चदेवासः देवाः अग्निंजनिमन् जन्मन्युदकेवा वपुष्यन् वपुर्दीप्तिमकुर्वन् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३