मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् ५

संहिता

शु॒क्रेभि॒रङ्गै॒ रज॑ आतत॒न्वान्क्रतुं॑ पुना॒नः क॒विभि॑ः प॒वित्रै॑ः ।
शो॒चिर्वसा॑न॒ः पर्यायु॑र॒पां श्रियो॑ मिमीते बृह॒तीरनू॑नाः ॥

पदपाठः

शु॒क्रेभिः॑ । अङ्गैः॑ । रजः॑ । आ॒ऽत॒त॒न्वान् । क्रतु॑म् । पु॒ना॒नः । क॒विऽभिः॑ । प॒वित्रैः॑ ।
शो॒चिः । वसा॑नः । परि॑ । आयुः॑ । अ॒पाम् । श्रियः॑ । मि॒मी॒ते॒ । बृ॒ह॒तीः । अनू॑नाः ॥

सायणभाष्यम्

अग्निः शुक्रेभिः शुक्रैरङ्गैस्तेजोभिरजोन्तरिक्षमाततन्वान् आततन्वन् व्याप्नुवन् क्रतुं कर्मणां कर्तारं यजमानं कविभिः क्रान्तप्रज्ञैः स्तोतव्यैर्वापवित्रैः शोधकैस्तेजोभिः पुनानः शोधयन् शोचि र्दीप्तिंवस्त्रस्थानीयंपरिपरितोवसानः आच्छादयन् अपांअपस्यातां कर्मवतां आयुरन्नं बृहतीः प्रभू ताः अनूनाः संपूर्णाः श्रियः संपदश्च मिमीतेकरोति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३