मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् १३

संहिता

अ॒पां गर्भं॑ दर्श॒तमोष॑धीनां॒ वना॑ जजान सु॒भगा॒ विरू॑पम् ।
दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं॑ दुवस्यन् ॥

पदपाठः

अ॒पाम् । गर्भ॑म् । द॒र्श॒तम् । ओष॑धीनाम् । वना॑ । ज॒जा॒न॒ । सु॒ऽभगा॑ । विऽरू॑पम् ।
दे॒वासः॑ । चि॒त् । मन॑सा । सम् । हि । ज॒ग्मुः । पनि॑ष्ठम् । जा॒तम् । त॒वस॑म् । दु॒व॒स्य॒न् ॥

सायणभाष्यम्

सुभगा सुभाग्या वना सर्वेर्वननीया अरणिः दर्शतं दर्शनीयं विरूपं नानाविधरूपं अपां ओषधी नांचगर्भंआग्नजजान अजनयत् देवासश्चित् सर्वेदेवाअपि पनिष्ठं स्तुत्यं तवसं वृद्धं जातं जात मात्रं तमग्निं मनसास्तुत्यासंजग्मुः उपागच्छन् हीतिपूरणः तएवदुवस्यन् पर्यचरन् ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५