मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २, ऋक् ५

संहिता

अ॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॒ वाज॑श्रवसमि॒ह वृ॒क्तब॑र्हिषः ।
य॒तस्रु॑चः सु॒रुचं॑ वि॒श्वदे॑व्यं रु॒द्रं य॒ज्ञानां॒ साध॑दिष्टिम॒पसा॑म् ॥

पदपाठः

अ॒ग्निम् । सु॒म्नाय॑ । द॒धि॒रे॒ । पु॒रः । जनाः॑ । वाज॑ऽश्रवसम् । इ॒ह । वृ॒क्तऽब॑र्हिषः ।
य॒तऽस्रु॑चः । सु॒ऽरुच॑म् । वि॒श्वऽदे॑व्यम् । रु॒द्रम् । य॒ज्ञाना॑म् । साध॑त्ऽइष्टिम् । अ॒पसा॑म् ॥

सायणभाष्यम्

वृक्तबर्हिषः स्तीर्णबर्हिषः यतस्रुचःप्राप्तस्रुचः ऋत्विजः सुम्नायसुखार्थं वाजश्रवसंमनुष्येभ्यः प्रेरितान्नं सुरुचं प्रशस्तदीप्तिमन्तं विश्वदेव्यं विश्वेभ्योदेवेभ्योहितं रुद्रंदुःखानांद्रावकं अपसांकर्म वतांयज्ञानां यजन्तीतियज्ञायजमानाः तेषां साधदिष्टिं साधितयज्ञं तादृशमग्निं इहयज्ञे जनाः स्तोतारः पुरोदधिरे स्तुवन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७