मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३, ऋक् २

संहिता

अ॒न्तर्दू॒तो रोद॑सी द॒स्म ई॑यते॒ होता॒ निष॑त्तो॒ मनु॑षः पु॒रोहि॑तः ।
क्षयं॑ बृ॒हन्तं॒ परि॑ भूषति॒ द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तो धि॒याव॑सुः ॥

पदपाठः

अ॒न्तः । दू॒तः । रोद॑सी॒ इति॑ । द॒स्मः । ई॒य॒ते॒ । होता॑ । निऽस॑त्तः । मनु॑षः । पु॒रःऽहि॑तः ।
क्षय॑म् । बृ॒हन्त॑म् । परि॑ । भू॒ष॒ति॒ । द्युऽभिः॑ । दे॒वेभिः॑ । अ॒ग्निः । इ॒षि॒तः । धि॒याऽव॑सुः ॥

सायणभाष्यम्

दस्मोदर्शनीयोहोताग्निः दूतः देवानांदूतःसन् रोदसीरोदस्योर्द्यावापृथिव्योः अन्तर्मध्ये ईयते गच्छति मनुषः मनोर्जातस्य मनुष्यस्यपुरोहितः आहवनीयादिरूप्;एणपुरतःस्थापितः निषत्तो निषण्णःसन् अग्निर्द्युभिःदीप्तिभिः बृहःतं महान्तं क्षयं यज्ञगृहं परिभूषति अलंकुरुते देवेभिः देवैः इषितः प्रेषितोधियावसुः प्रज्ञयाव्याप्तः एतेद्वे अग्निविशेषणे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०