मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३, ऋक् ६

संहिता

अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्च ज॒न्तुभि॑स्तन्वा॒नो य॒ज्ञं पु॑रु॒पेश॑सं धि॒या ।
र॒थीर॒न्तरी॑यते॒ साध॑दिष्टिभिर्जी॒रो दमू॑ना अभिशस्ति॒चात॑नः ॥

पदपाठः

अ॒ग्निः । दे॒वेभिः॑ । मनु॑षः । च॒ । ज॒न्तुऽभिः॑ । त॒न्वा॒नः । य॒ज्ञम् । पु॒रु॒ऽपेश॑सम् । धि॒या ।
र॒थीः । अ॒न्तः । ई॒य॒ते॒ । साध॑दिष्टिऽभिः । जी॒रः । दमू॑नाः । अ॒भि॒श॒स्ति॒ऽचात॑नः ॥

सायणभाष्यम्

देवेभिः देवैः साधदिष्टिभिः साधितयज्ञैर्जन्तुभिः ऋत्विग्भिश्च धियाकर्मणा मनुषोयजमान स्य पुरुपेशसं बहुरूपं पेशइतिरूपनाम पुरोडासापशुसोमहविर्भेदैः एकाहाहीनसत्रात्मकभेदैश्च नानाविधरूपं यज्ञं तन्वानः कुर्वन् रथीः सर्वस्यलोकस्यनेता जीरः क्षिप्रकारी दमूनाः दान्त- मनाः दानमनावा अभिशस्तिचातनः अभिशस्तीनामरातीनां यज्ञविघ्नकारिणां रक्षसां चात- यितानाशयिताग्निः अन्तः द्यावापृथिव्योर्मध्ये ईयतेगच्छति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१