मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३, ऋक् ७

संहिता

अग्ने॒ जर॑स्व स्वप॒त्य आयु॑न्यू॒र्जा पि॑न्वस्व॒ समिषो॑ दिदीहि नः ।
वयां॑सि जिन्व बृह॒तश्च॑ जागृव उ॒शिग्दे॒वाना॒मसि॑ सु॒क्रतु॑र्वि॒पाम् ॥

पदपाठः

अग्ने॑ । जर॑स्व । सु॒ऽअ॒प॒त्ये । आयु॑नि । ऊ॒र्जा । पि॒न्व॒स्व॒ । सम् । इषः॑ । दि॒दी॒हि॒ । नः॒ ।
वयां॑सि । जि॒न्व॒ । बृ॒ह॒तः । च॒ । जा॒गृ॒वे॒ । उ॒शिक् । दे॒वाना॑म् । असि॑ । सु॒ऽक्रतुः॑ । वि॒पाम् ॥

सायणभाष्यम्

हेअग्ने स्वपत्येसुपुत्रे आयुनि आयुषि निमित्तसप्तम्येषा आयुषिनिमित्ते जरस्व देवान् स्तुहि होतारमधिष्ठाय ऊर्जा रसेनअन्नेनवा पिन्वस्वदेवान् प्रीणय नोस्माकं इषः सस्यार्थं वृष्टीः संदि दीहि संदीपय वयांसिअन्नानिच वयः क्षद्मेत्यन्ननामसुपाठात् जिन्वदेहि हेजागृवेसर्वदाजागरणशी- ल बृहतःमहतोयजमानस्य जिन्वेतिसंबन्धः सुक्रतुःशोभनकर्माशोभनयज्ञोवात्वं विपांमेधाविनां देवानां उशिक् कान्तोसि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१