मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५, ऋक् ३

संहिता

अधा॑य्य॒ग्निर्मानु॑षीषु वि॒क्ष्व१॒॑पां गर्भो॑ मि॒त्र ऋ॒तेन॒ साध॑न् ।
आ ह॑र्य॒तो य॑ज॒तः सान्व॑स्था॒दभू॑दु॒ विप्रो॒ हव्यो॑ मती॒नाम् ॥

पदपाठः

अधा॑यि । अ॒ग्निः । मानु॑षीषु । वि॒क्षु । अ॒पाम् । गर्भः॑ । मि॒त्रः । ऋ॒तेन॑ । साध॑न् ।
आ । हि॒र्य॒तः । य॒ज॒तः । सानु॑ । अ॒स्था॒त् । अभू॑त् । ऊं॒ इति॑ । विप्रः॑ । हव्यः॑ । म॒ती॒नाम् ॥

सायणभाष्यम्

मित्रः यजमानानांमित्रभूतः ऋतेनसत्येनसाधन् कामान् साधयन् अपांगर्भोग्निः मानुषीषुमनोः संबन्धिनीषुविक्षुप्रजासु अधायिदेवैराहितः किंच हर्यतः स्पृहणीयः यजतोयष्टव्यः सः सानुउच्छ्रि तंधिष्ण्यं उत्तरवेद्याख्यं आस्थात् अध्यतिष्ठत् विप्रःप्राज्ञःअग्निः मतीनांमातॄणांस्तोतॄणांहव्यः स्तुत्यः अभूत् उःपूरणः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४