मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ७, ऋक् ३

संहिता

आ सी॑मरोहत्सु॒यमा॒ भव॑न्ती॒ः पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णाम् ।
प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत्पुरु॒धप्र॑तीकः ॥

पदपाठः

आ । सी॒म् । अ॒रो॒ह॒त् । सु॒ऽयमाः॑ । भव॑न्तीः । पतिः॑ । चि॒कि॒त्वान् । र॒यि॒ऽवित् । र॒यी॒णाम् ।
प्र । नील॑ऽपृष्ठः । अ॒त॒सस्य॑ । धा॒सेः । ताः । अ॒वा॒स॒य॒त् । पु॒रु॒धऽप्र॑तीकः ॥

सायणभाष्यम्

रयीणां रयिवित् धानानां मध्ये विशिष्ट धनस्य संभयिता चिकित्वान् ज्ञानवान् पतिरश्वानां पतिरग्निः सीं सर्वतः सुयमाण् सुखेन नियंतुं शक्या भवंतीर्यावडवा आरोहत् आरोहयति स्म नीलपृष्ठः पुरुधप्रतीको बहुधाविक्षिप्तांगः सोऽग्निरतसस्य सततगमनस्य धासेः पोषणार्थं ता अश्वाः प्रावासयत् । प्रकर्षेण वासयति स्म । निवासेन शरमेऽपनीते सततगमनं पोषयितुं शक्यमित्यर्थः ॥ सीम् । जादयोऽनुदात्ता इत्यनुदात्तः । आरोहत् रुह प्रादुर्भावे । लङ् रूपम् । निघातः सुयमाः । यम उपरमे । अस्माच्छक्यार्थ ईषद्दुसुष्विति खल् । कृदुत्तरपदप्रकृतिस्वरत्वम् । पति । पा रक्षणे । पातेर्डतिरिति डित्त्वाट्टिलोपः प्रत्ययस्वरः । चिकित्वान् । चिति संज्ञाने । क्वसौ रूपम् । रयिवित् । विद्लृलाभे क्विप् । रयीणां नामन्यतरस्यामिति विभक्तेरुदात्तत्वम् । नीलपृष्ठः । नीलशब्दो वृषादित्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अतसस्य । अत सातत्यगमन इत्यस्मादत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्यः । उ-११२ । इत्यसच् । चित्स्वरः । अवासयत् । वस निवासे । हेतुमतीति णिच् । लुङ् लृङ् क्ष्वडित्यडागमः । तिङ्ग तिङ इति निघतः । पुरुधप्रतीकः । पुशब्द इह संख्यावाची । संख्याया विधार्थे धेति धाप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ह्रस्वश्छांदसः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः