मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ८, ऋक् ११

संहिता

वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम ।
यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ॥

पदपाठः

वन॑स्पते । श॒तऽव॑ल्शः । वि । रो॒ह॒ । स॒हस्र॑ऽवल्शाः । वि । व॒यम् । रु॒हे॒म॒ ।
यम् । त्वाम् । अ॒यम् । स्वऽधि॑तिः । तेज॑मानः । प्र॒ऽनि॒नाय॑ । म॒ह॒ते । सौभ॑गाय ॥

सायणभाष्यम्

हे वनस्पते छिन्नमूल स्थाणो शवल्शः शतशाखः सन् विरोह । विशेषेण पादुर्भूतो भव । वयमपि सहस्रवस्शाः पुत्रपौत्रादिसन्तानपरम्परया सहस्रशाखाः सन्तो विरुहेम । विशेषेण प्रादुर्भुता भवेम । तेजमानो निशितधारोऽयं स्वधितिः परशुः हे स्थाणो यं त्वा महते सौभगाय महत्सौभाग्यं बहुशाखत्व लक्षणं प्रणिनाय । प्रकर्षेण प्रपयामास । सहस्रवल्शाः । सहस्रशब्दः कर्दमादित्वान्मध्योदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । रुहेम । रुह प्रादुर्भाव इत्यस्मादाशीर्लिङ् किदाशिषीति यासुडागमः । स्कोः संयोगाद्योरन्ते चेति सलोपः । लिज्याशिष्यङ्ङु त्यङ् प्रत्ययः । अतो येय इति इयादेशः । लोपो व्योर्वलिति यलोपः । गुणः । प्रणिनाय । णीञ् प्रापण इत्यस्माल्लिटि रूपम् । पादादित्वाद निघातः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः