मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ११, ऋक् ५

संहिता

अदा॑भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणाम् ।
तूर्णी॒ रथ॒ः सदा॒ नवः॑ ॥

पदपाठः

अदा॑भ्यः । पु॒रः॒ऽए॒ता । वि॒शाम् । अ॒ग्निः । मानु॑षीणाम् ।
तूर्णिः॑ । रथः॑ । सदा॑ । नवः॑ ॥

सायणभाष्यम्

मानुषीणां मनोर्जातानाम् विशां प्रजानां पुरएता सन्मार्गप्रदर्शनेनाग्रतो गन्तात एव तूर्णिस्ताः प्रजा वैदिककर्मप्रवर्तकत्वेनानुग्रहीतुं त्वरायुक्त आलस्यरहितो रथो हविषां वहनाद्रथसदृशः सदा सर्वदा तत्कर्मणि नवो नूतनः पुनर्मथनादभिनव एवं विधोऽग्निरदाभ्यः । अहिंस्यः । न केनापि तिरस्कार्य इत्यर्थः ॥ अदाभ्यः । दुन्धु दम्भे । दभेश्चेति वक्तव्यमिति कर्मणिण्यत् । उपधावृद्धिः । न दाभ्योऽदाभ्यः । न ञ्समासे तत्पुरुषे तुल्यार्थेति पूर्वपदप्रकृतिस्वरत्वम् । पुरएता । इण् गतौ । ण्वुल्तृचाविति तृच् । गुणः । चित्त्वादन्तोदात्तः । मानुषीणाम् । मनोर्जातावञ्यतौ षुक् चेत्यञ् । टद्ढ्णञिति ङीप् । ञित्त्वादाद्युय्दात्तः । तूर्णीः । ञित्वरा सम्भ्रम इति धातोर्निरित्यनुवृत्तौ वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो निदिति निप्रत्ययः । ज्वरत्वरेत्यादिना ऊठ् । तस्य नित्वादाद्युदात्तः । संहितायां ढ्रलोपे पूर्वस्येति दीर्घः । रथः । हनिकुषिनीरमिकाशिभ्य इति क्थन्प्रत्ययः । क्त्त्वादनुदात्तोपदेशेत्यादिनानुनासिकलोपः नित्त्वादाद्युदात्तः । सदा स्वरादिष्वाद्युदात्तत्वेन हठितत्वादाद्युदात्तः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः