मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ११, ऋक् ६

संहिता

सा॒ह्वान्विश्वा॑ अभि॒युज॒ः क्रतु॑र्दे॒वाना॒ममृ॑क्तः ।
अ॒ग्निस्तु॒विश्र॑वस्तमः ॥

पदपाठः

सा॒ह्वान् । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । क्रतुः॑ । दे॒वाना॑म् । अमृ॑क्तः ।
अ॒ग्निः । तु॒विश्र॑वःऽतमः ॥

सायणभाष्यम्

अभियुजोऽभियोक्त्रीर्विश्वाः सर्वाः सेनाः सह्वान्सहमानः स्वबलेन तिरस्त्कुर्वाणोऽत एवामृक्तः शत्रुभिरहिंसितो देवानां क्रतुः कर्ता हविष्प्रदानेन पोषक एवं भूतोऽग्निस्तुविश्रवस्तमः । तुविशब्दो बहुवाची । तुवि पुरु इति तन्नामसु पाठात् । श्रवः शब्दोऽन्नवाची । श्रव इत्यन्ननाम श्रूयते । नि. १८-३ । इति निरुक्तेऽभिधानात् । अतिशयेन बहुविधान्नोपेतो वर्तते । यस्मादेवं तस्मादस्मानपि बहुविधान्नोपेतान्कुअरोत्विति भावः ॥ साह्वान् । षह मर्षण इत्यस्य क्वसौ दाश्वान्साह्वान्मीढ्वांश्चेति निपातनाद्द्विर्वचनमिडागमश्च न भवति परस्मै पदं च भवति । क्वसुस्वरः । क्रतुः । कृञः कतुः । कित्त्वाद्गुणाभावः । प्रत्यय स्वरः । तुविश्रवस्तमः । तु वृत्तिहिंसापूर्तिषु । अस्मादौणादिकः किप्रत्ययः । कित्त्वाद्गुणाभावः । उपजादेशः । अन्तोदात्तः । श्रवः । श्रु श्रवणे । श्रूयतेऽन्नमिति कर्मण्यसुन्प्रत्ययः । अतिशयेन तुविश्रवा इत्यतिशायने तमबिति तमप् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०