मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ११, ऋक् ९

संहिता

अग्ने॒ विश्वा॑नि॒ वार्या॒ वाजे॑षु सनिषामहे ।
त्वे दे॒वास॒ एरि॑रे ॥

पदपाठः

अग्ने॑ । विश्वा॑नि । वार्या॑ । वाजे॑षु । स॒नि॒षा॒म॒हे॒ ।
त्वे इति॑ । दे॒वासः॑ । आ । ई॒रि॒रे॒ ॥

सायणभाष्यम्

हे अग्ने वार्या वरणीयानि सम्भजनीयानि विश्वानि सर्वाणि धनानि वाजेषुयुद्धेषु सनिषामहे । वयं सम्भजामहे । यतः कारणाद्देवासः पूर्वमस्माभिरिष्टा देवा अस्मदभिमतफलप्रदानाय त्वे त्वय्येरिरे । आ समन्तादगमन् । त्वयि पविष्टा इत्यर्थः । सर्वथापि त्वत्सकाशात् फलं लभेमहीति भावः । वार्या । वृङ् सम्भक्तौ । ऋहलोर्ण्यदिति ण्यत् । शेश्छन्दसि बहुलमिति शेर्लुक् । ईडवन्देत्यादिनाद्युदात्तः वाजेषु । वृषादित्वादाद्युदात्तः । सनिषामहे । वनषण सम्भक्तौ । धात्वादेः षः सः । लेटि सिब्बहुलमिति सिप् । सिप आर्धधातुकत्वादिडागमः । लेटोऽडाटावित्यडागमः । व्यत्ययेनात्मनेपदम् । निघातः । त्वे । युश्मच्छब्दस्य सप्तम्यान्तादेशः । सुपां सुलिगिति शे आदेशः । शे । पा. १-१-१३ । इति प्रगृह्यसंञा । ईरिरे । ईर गतवित्यस्मात्परस्य लिटो झस्य इरेजादेशः । इजादेश्च गुरुतम इत्याम्न भवति मन्त्रत्वात् । निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०