मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १४, ऋक् ५

संहिता

व॒यं ते॑ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ ।
यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ अग्ने ॥

पदपाठः

व॒यम् । ते॒ । अ॒द्य । र॒रि॒म । हि । काम॑म् । उ॒त्ता॒नऽह॑स्ताः । नम॑सा । उ॒प॒ऽसद्य॑ ।
यजि॑ष्ठेन । मन॑सा । य॒क्षि॒ । दे॒वान् । अस्रे॑धता । मन्म॑ना । विप्रः॑ । अ॒ग्ने॒ ॥

सायणभाष्यम्

हे अग्ने उत्तानहस्ता हविःस्वीकरणादुत्तानपाणयो वयं कामं कमनीयं पुरोडाशादिहविस्ते तुभ्यमद्ध्येदानीमस्मिन्कर्मणि ररिम । दद्मः । नमसा नमस्कारेणोपसद्य प्रसन्नो भूत्वा यजिष्ठेन यष्टृतमेन यागेच्छावता मनसान्तः करणेन देवान्यक्षि । यजनीयान्देवान्यज । पूजय । किञ्च विप्रो मेधावि कर्माभिज्ञस्त्वमस्रेधताक्षीणेन प्रभूतेन मन्मना मन्तव्येन स्तोत्रेण देवान्पूजय ॥ अद्य । सद्यः परुत्परार्यैषम इत्यादिना निपातितः । अन्तोदात्तश्च । ररिम । रादान इत्यस्य वर्तमाने लिटि परस्मैपदानां णलतुः । पा. ३-४-८२ । इत्यादिना मसोमादेशः । क्रादिनियमादिडागमः । आतो लोप इटि चेत्याकारलोपः । हियोगादनिघातः । आगमा अनुदात्ता इतीटोऽनुदात्तत्त्वात्प्रत्ययस्वरः । उपसद्य । षद्लृविशरणगत्यवसादनेषु । अस्यक्त्वा । समासेऽनञ् पूर्वेक्त्वोल्यबितिल्यप् । लित्स्वरः । यक्षि । यज देवपूजासङातिकरणदानेषु । लोटि बहुलं छन्दसीति शपो लुक् । षत्वकत्वे । सिपो ह्यादेशाभाश्छान्दसः । अस्रेधता । स्रिधिः क्षयार्थः । तत्पुरुष इति नञ् स्वरः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४