मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १५, ऋक् ५

संहिता

अच्छि॑द्रा॒ शर्म॑ जरितः पु॒रूणि॑ दे॒वाँ अच्छा॒ दीद्या॑नः सुमे॒धाः ।
रथो॒ न सस्नि॑र॒भि व॑क्षि॒ वाज॒मग्ने॒ त्वं रोद॑सी नः सु॒मेके॑ ॥

पदपाठः

अच्छि॑द्रा । शर्म॑ । ज॒रि॒त॒रिति॑ । पु॒रूणि॑ । दे॒वान् । अच्छ॑ । दीद्या॑नः । सु॒ऽमे॒धाः ।
रथः॑ । न । सस्निः॑ । अ॒भि । व॒क्षि॒ । वाज॑म् । अ॒ग्ने॒ । त्वम् । रोद॑सी॒ इति॑ । नः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ॥

सायणभाष्यम्

जरितः सर्वस्य जगतोऽन्तकाले जरयितर्हे अग्ने सुमेधाः शोभनप्रज्ञोपेतो दीद्यानः । स्वतेजसा प्रकाशमानस्त्वं देवान् यष्टव्यान्देवान् अच्छाभिलक्ष्य तदुद्देशेन क्रियमाणानि पुरूणि शर्म स्वर्गादिसुखसाधनभूतान्यग्निहोत्रादीनि कर्माण्यच्छिद्रा अच्छिद्राणि कुरु । कर्तृकर्मसाधनवैकल्यराहित्येन सम्पूर्णानि कुरु । किञ्च हे अग्ने त्वं सस्निः सन्निरुद्धः स्वकीयं सततगमनं सन्निरुद्ध्य हविष्प्रक्षेप पर्यन्तमत्र वर्तमानस्त्वं वाजं नोऽस्माभिर्दीयमानं हविर्लक्षणमन्नमभिदेवानभिलक्ष्य वक्षि । वह प्रापय । तत्र दृष्ठान्तः रथो न रथ इव ॥ यथा रथो धान्यादिकमूढ्वा तत्स्वामिनं प्रापयति तद्वत् । किञ्च त्वमग्ने रोदसी द्यावापृथिव्यौ सुमेके शोभनरूपोपेते स्वकीयप्रभाभिः प्रकाशयुक्ते कुरु ॥ दीद्यानः । दीदेतिः दीप्तिकर्मा । तस्माच्छानच् । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । सुमेधाः । नित्यमसिच् प्रजामेधयोरित्यसिच् प्रत्ययः । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपादान्तोदात्तत्वम् । सस्निः । षस स्वप्ने । अस्मादौणादिको निन् । नित्त्वादाद्युदात्तत्वम् । वक्षि वहप्रापणे । अस्य लोटः सिपि बहुलं छन्दसीति शपो लुक् । ढत्वकत्वे । हिरादेशश्छान्दसत्वान्न भवति निघातः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५