मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १७, ऋक् २

संहिता

यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ।
ए॒वानेन॑ ह॒विषा॑ यक्षि दे॒वान्म॑नु॒ष्वद्य॒ज्ञं प्र ति॑रे॒मम॒द्य ॥

पदपाठः

यथा॑ । अय॑जः । हो॒त्रम् । अ॒ग्ने॒ । पृ॒थि॒व्याः । यथा॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ।
ए॒व । अ॒नेन॑ । ह॒विषा॑ । य॒क्षि॒ । दे॒वान् । म॒नु॒ष्वत् । य॒ज्ञम् । प्र । ति॒र॒ । इ॒मम् । अ॒द्य ॥

सायणभाष्यम्

हे अग्ने त्वं यथा पृथिव्या यजमानभूतयाः पृघिवीदेवतायाः पूर्वं होता सन् होत्रं होमसाधनं हविरयजोऽयाजीः जातवेदो जातप्रज्ञ हे अग्ने चिकित्वान् कर्मविषयज्ञानवान् त्वं यथा च दिवो यजमानभूतायाद्युदेवताया होता भूत्वा हविरजः । एव एवं त्वमस्मिन्कर्मणि होता सन् अनेनास्माभिर्दीयमानेन हविषा देवान् यक्षि । यज किञ्च त्वमद्येदानीमस्माभिः क्रियमाणमिमं यज्ञं प्र शिर । अनिष्ठ्गान संपूर्त्या पारं गमय । तत्र दृष्ठान्तो मनुश्वदिति । यथा मनोर्यज्ञमनुष्ठानसंपूर्त्या पारमनैषीस्तद्वदिमं यज्ञं पारं नयेत्यर्थः ॥ यथा । प्रकारवचने थालिति थाल् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । अयजः । यजेर्लङ् रूपम् । यच्छब्दयोगादनिघातः । होत्रम् । हु दानादनयोः । हुयामाश्रुभसिभ्यस्त्रन्निति त्रन्प्रत्ययेनान्तोदात्तः । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । चिकित्वान् । कित ज्ञान इत्यस्य क्वसौ रूपम् । प्रत्यय स्वरः । अनेन । इदंशब्दस्य तृतीयैकवचन अनाप्यकः । पा. ७-२-११२ । इत्यनादेशः । यक्षि । यजेर्लोटि रूपम् । मनुष्वत् । तत्र सस्येवेति वतिः । नभोऽङ्गिरो मनुषां वत्युपसङ्ख्यानमिति भसंज्जात्वाद्रुत्वाभावः । प्रत्ययस्वरः । तिर । तरतेर्लोटि व्यत्ययेन शः । ॠत इद्धातोरितीत्वम् । निघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७