मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १८, ऋक् २

संहिता

तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॒न्तपा॒ शंस॒मर॑रुष॒ः पर॑स्य ।
तपो॑ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यासः॑ ॥

पदपाठः

तपो॒ इति॑ । सु । अ॒ग्ने॒ । अन्त॑रान् । अ॒मित्रा॑न् । तप॑ । शंस॑म् । अर॑रुषः । पर॑स्य ।
तपो॒ इति॑ । व॒सो॒ इति॑ । चि॒कि॒ता॒नः । अ॒चित्ता॑न् । वि । ते॒ । ति॒ष्ठ॒न्ता॒म् । अ॒जराः॑ । अ॒यासः॑ ॥

सायणभाष्यम्

हे अग्ने अन्तरान् अभिभावकानमित्राञ्छत्रून सु सुष्ठु यथा भवति तथा तपो । तपैव । भावस्व । किञ्च । अररुषस्तुभ्यं हविरप्रयच्छतोऽत एव परस्य शत्रुभूतस्य स्वं शंसमभिलाषं तप । क्षपय । वसो सर्वस्य वासयितर्हे अग्ने चिकितानः कर्माभिज्ञस्त्वमचित्तान् सत्कर्मण्यनासक्तमनस्कान्पुरुषान् तपो । सन्तप । यस्मादेवं तस्मात्ते तव रश्मयोऽजरा जरारहिता प्रतिबन्धारहिता अत एव अयासः सर्वत्र गमनस्वभावाः सन्तो वि तिष्ठन्ताम् । विशेषेण तिष्ठन्तु ॥ तपो । तप उ । गुणः । उ- ञमवलम्ब्य उ ञ इति प्रगृह्यसंज्ञा । पादादित्वादनिघातः । तपा । तप सन्ताप इत्यस । लोटि रूपम् । द्व्यचोऽतस्तिङ इति सम्हितायां दीर्घः । आररुषः रा दान इत्यस्य क्वसौ वस्वेकाजिति प्राप्तस्येटः सम्प्रसारणं सम्प्रसारणाश्रयं च बलीय इति सम्प्रसारणबलीयस्त्वान्निवृत्तिः । वसोः सम्प्रसारणमिति सम्प्रसारणम् । समासे न ञ्स्वर्यः । चिकितानः । कित ज्ञान इत्यस्य छन्दसि लिट् । तस्य लिटः कानज्वेति कानजादेशः । द्विर्वचनम् । कित्त्वाद्गुणाभावः । चित्त्वादन्तोदात्तः ॥ तिष्ठान्ताम् । ष्ठा गतिनिवृत्तौ । विपूर्वात्तिष्ठतेः । समवप्रविभ्यः स्थ इत्यात्मनेपदम् । निघातः । आयसः । अय गतौ । पचाद्यच् चित्स्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८