मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १९, ऋक् १

संहिता

अ॒ग्निं होता॑रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं॑ क॒विं वि॑श्व॒विद॒ममू॑रम् ।
स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑यान्रा॒ये वाजा॑य वनते म॒घानि॑ ॥

पदपाठः

अ॒ग्निम् । होता॑रम् । प्र । वृ॒णे॒ । मि॒येधे॑ । गृत्स॑म् । क॒विम् । वि॒श्व॒ऽविद॑म् । अमू॑रम् ।
सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । रा॒ये । वाजा॑य । व॒न॒ते॒ । म॒घानि॑ ॥

सायणभाष्यम्

गाधी स्तौति । हे अग्ने गृत्सं गृणन्तं देवानां स्तुतिं कुर्वन्तं कविं मेधाविनं विश्वविदं सर्वविषयज्ञानोपेतममूरममूढमग्निमङ्गनादिगुणोपेतं त्वां मियेधेऽस्माभिः क्रियमाणेऽस्मिन्यज्ञे होतारं होमनिष्पादकं देवानामाह्वातारं वाहं प्रवृणे । प्रकर्षेण सम्भजे । स तथाविधोऽग्निर्यजीयान् यष्टृतमः सन् नोऽस्माकं देवताता यष्टव्यतया सम्बन्धिनो देवान्यक्षत् । यजतु । किञ्च सोऽग्नी राये धनाय वाजायान्नाय च मघानि मम्हनीयान्यस्माभिर्दीयमानानि हवींषि वनते । सम्भजताम् । वृणे । वृङ् सम्भक्तौ । निघातः । मियेधे । मकारैकारयोर्मध्य इयागमश्छान्दसः । गृत्सम् । गृधु अभिकांक्षायाम् । गृधिपण्योर्दकौ च । उ. ३-६९ । इति सप्रत्ययः । अन्त्यस्य दकारः । व्यत्ययेनाद्युदात्तत्वम् । अमूरम् । मुह वैचित्य इत्यस्य निष्ठयां रूपम् । रेफष्छान्दसः । न ञा समासे तस्य नञ्स्वरः । यक्षत् । यजेर्लेटि सिब्बहुलं लेटीति सिप् । लेटोऽडाटावित्यडागमः । इतश्च लोप इतीकारलोपः । देवताता । देवशब्दात्स्वार्थे सर्वदेवात्तातिलिति तातिल् । सुपां सुलुगिति सुपो डादेशः । लित्स्वरः । वनते वन षण सम्भक्तावित्यस्य लिटि व्यत्ययेनात्मने पदम् । निघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९