अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः ।
सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ॥
अ॒ग्निम् । उ॒षस॑म् । अ॒श्विना॑ । द॒धि॒ऽक्राम् । विऽउ॑ष्टिषु । ह॒व॒ते॒ । वह्निः॑ । उ॒क्थैः ।
सु॒ऽज्योति॑षः । नः॒ । शृ॒ण्व॒न्तु॒ । दे॒वाः । स॒ऽजोष॑सः । अ॒ध्व॒रम् । वा॒व॒शा॒नाः ॥
गाधि बृते । वह्निर्हविषां प्रपयिताग्निर्व्युष्टिषुषसां व्युच्छनेष्वग्निं यजनीयं देवमुषसमुषोऽभिमानिनीं देवतामश्विना अश्विनौ द्वौ दधिक्रां । दधिक्रावा नाम कश्चिद्देवः तं दधिक्रावाणं । एतान्देवानुक्थैः शस्त्रैः शंसनसाधनैरप्रगीतमन्त्रात्मकैः सूक्तैर्वहते । आह्वयति । सुज्योतिषः सुष्ठु द्योतमानानोऽध्वरमस्मत्सम्बन्धिनमिमं यज्ञं वावशानाः कामयमानाः सजोषसः परस्परं सङ्गता भूत्वा सर्वे देवास्तदाह्वानं शृण्वन्तु । दधिक्रां । क्रमु पादविक्षेपे । दधीत्युपपदे जनसनखनक्रमगम इति विट् । विड्वनोरनुनासिकस्यादित्याकारः । कृदुत्तरपदप्रकृतिस्वरत्वं । हवते ह्वयत्र्र्बहुलं छन्दसीति सम्प्रसारणं । सुज्योतिषः । सुष्ठु द्योतमाना इति विग्रहे द्युत दीप्तावित्यस्य स्युतेरिसिन्नादेश्च जः । उ. २-१११ । इतीसिन्प्रत्ययोदकारस्य जकारः । कृदुत्तरपदप्रकृतिस्वरत्वं बहुव्रीहिपक्षे तु नञ् सुभ्यामित्युत्तरपादान्तोदात्तता स्यात् । यथा । सुज्योतिषो अक्तवस्ता अभिष्युः । ऋग्वे १०-८९-१५ । इत्यत्रान्तोदात्तता । तस्मादत्र नायं समासः किन्तु तत्पुरुष एव शृण्वन्तु । श्रु श्रवण इत्यस्माच्छ्रुवः शृ चेति श्नुस्तत्सन्नियोगेन धातोः शृ इत्यादेशः निघातः । वावशानाः । वश कान्तावित्यस्य यङ्लुकि रूपं । अभ्यासस्य दीर्घोऽकित इति दीर्घः । व्यत्ययेन शानच् । चित्स्वरः ॥ १ ॥