मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २०, ऋक् ४

संहिता

अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ ।
स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दा॒ः पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णन्त॑म् ॥

पदपाठः

अ॒ग्निः । ने॒ता । भगः॑ऽइव । क्षि॒ती॒नाम् । दैवी॑नाम् । दे॒वः । ऋ॒तु॒ऽपाः । ऋ॒तऽवा॑ ।
सः । वृ॒त्र॒ऽहा । स॒नयः॑ । वि॒श्वऽवे॑दाः । पर्ष॑त् । विश्वा॑ । अति॑ । दुः॒ऽइ॒ता । गृ॒णन्त॑म् ॥

सायणभाष्यम्

योऽयमग्निः क्षितीनां मनुष्याणां दैवीनां देवसम्बन्धिनीनां विशां नेतान्तर्यामितया नियामकः । तत्र दृष्टान्तः । ऋतुपा भग इव । यथा वसन्ताद्यृतूनां पालकः सूर्यः सर्वस्य स्वप्रकाशप्रदानेन प्रवर्तकः । तद्वत् । यश्चाग्निरृतावासत्यकर्मावृत्रहावृत्रस्य हन्ता सनयः सनातनः पुराणो विश्ववेदाः सर्वविषयज्ञानवान्सर्वज्ञो देवो द्योतमानः स तथाविधोऽग्निर्गृणन्ततं तद्विषयां स्तुतिं कुर्वन्तं स्तोतारां विश्वा दुरिता सर्वाणि दुरितान्यति अतिक्रम्य पर्षत् । पारं नयतु ॥ नेता णीञ् प्रापण इत्यस्य तृचिरूपम् । चित्स्वरः । क्षितीनाम् । क्षि निवासगत्योः । क्तिच् क्तौच संज्ञायामिति क्तिच् । नामनृतरस्यामित्यन्तोदात्तत्वम् । दैवीनाम् । देवशब्दात्सम्बन्धार्थे देवाद्यञञावित्यञ् । अञुटिड्भाणइति ङीप् । ञित्त्वादाद्युदात्तः । ऋतुपाः । पा रक्षण इत्यस्मादन्येभ्योऽपि दृश्यन्त इति विच् । ऋतून्पातीत्युपपदमतिङ् । पा. २-२-९ । इति समासः । कृदुत्तरपदप्रकृतिस्वरः । वृत्रहा । हन हिंसागत्योः । ब्रह्मभ्रूणवृत्रेषुक्विबिति क्विप् । विश्ववेवाः । बहुव्रीहौ विश्वं संज्ञायामिति पूर्व पदान्तोदात्तत्वम् । वर्षत् । पृ पालनपूरणयोरित्यस्य लेटि सिब्बहुलमिति सिप् । अडागमः । इतश्च लोपः इतीकारलोपः । पादादित्वादनिघातः । गृणंतम् । गॄ शब्दे । लटः शतृ । क्र्यादित्वात् श्ना । शत्रन्तत्वात् श्नाभ्यस्तायोरात इत्याकारलोपः । शतृप्रत्ययस्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०