मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २२, ऋक् २

संहिता

अग्ने॒ यत्ते॑ दि॒वि वर्च॑ः पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र ।
येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षा॑ः ॥

पदपाठः

अग्ने॑ । यत् । ते॒ । दि॒वि । वर्चः॑ । पृ॒थि॒व्याम् । यत् । ओष॑धीषु । अ॒प्ऽसु । आ । य॒ज॒त्र॒ ।
येन॑ । अ॒न्तरि॑क्षम् । उ॒रु । आ॒ऽत॒तन्थ॑ । त्वे॒षः । सः । भा॒नुः । अ॒र्ण॒वः । नृ॒ऽचक्षाः॑ ॥

सायणभाष्यम्

यजत्र यजनीय हे अग्ने दिवि द्युलोके यद्वर्च आदित्याख्यं यज्ज्योतिस्तत्ते तवैव ज्योतिः । पृथिव्यामाहवनीयादिरूपतया वर्त्तमानं यत्तेजस्तत्त्वदीयमेव । प्रसिद्धिं तेजोऽभिधाय गूढं ज्योतिरभिधत्ते । यदोषधीष्वप्स्विति । ओषधीष्वरणिप्रभृतिषु काष्ठेषु यत्तेजः । यद्वा ओषधीषु वनस्पत्यादिषु सोमाख्यं यत्तेजोऽप्सु जलेषु यदौर्वाख्यं तेजस्तत्सर्वं आ सर्वत्र वर्तमानं तेजस्तावकमेव । किञ्च येन वायुरूपेण तेजसान्तरिक्शमाकाशमुर्वाततन्थ आतेनिथ विस्तीर्णं कृतवानसि । त्वेषो दीप्तिमान् अत एव भानुर्भासमानो नृचक्षा नृणां साक्षितया द्रष्टार्णवः समद्रवन्महान् । स तादृशस्त्वमन्तरिक्षमातेनिथेति पूर्वेणान्वयः । उक्तार्थे वाजसनेयकं । अग्ने यत्ते दिवि वर्च इत्यादित्यो वा अस्य दिवि वर्चः पृथिव्यामित्ययमग्निः पृथिव्यां यदोषधीष्वप्स्वा यजत्रेति य एवऔषधीषुचाप्सु चाग्निस्तमेतदाह येनान्तरिक्षमुर्वाततन्थेति वायुः सत्वेषः स भानुरर्णवो नृचक्षा इति माहान्त्सभानुरर्णवो नृचक्षा इत्येतत् । शत. ब्रा. ७-१-२३ । इति ॥ पृथिव्यां । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वं । ओषधीषु । ओषधेश्च विभक्तावप्रथमायामिति दीर्घत्वं । अप्सु । सावेकाच इति विभक्तेरुदात्तत्वं । आततन्थ । तनु विस्तार इत्यस्य लिट थलि बभूथाततन्थ जगृम्भ ववर्थेति निपानादिडेत्वाभ्यासलोपा न भवन्ति लि तीति प्रत्ययात्पूर्वस्योदात्तत्वं । यद्वृत्तयोगादनिघातः अर्णवः । अर्णाम्स्यस्मिन्सन्तीति मतुबर्थे वप्रकरणेऽन्येभ्योपि दृश्यन्त इति वप्रत्ययः । अर्णसः सलोपश्चेति सलोपः । प्रत्ययस्वरः । सृचक्षाः चक्षिङ् व्यक्तायां वाचि । अभिव्यक्तवाग्वाच्ययं धातुरत्राभिव्यक्तिमात्रे वर्तते । चक्षेर्बहुलं शिच्चेत्यसुन् । कृदुत्तरपदप्रकृतिस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२