मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २२, ऋक् ३

संहिता

अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ ऊ॑चिषे॒ धिष्ण्या॒ ये ।
या रो॑च॒ने प॒रस्ता॒त्सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आपः॑ ॥

पदपाठः

अग्ने॑ । दि॒वः । अर्ण॑म् । अच्छ॑ । जि॒गा॒सि॒ । अच्छ॑ । दे॒वान् । ऊ॒चि॒षे॒ । धिष्ण्याः॑ । ये ।
याः । रो॒च॒ने । प॒रस्ता॑त् । सूर्य॑स्य । याः । च॒ । अ॒वस्ता॑त् । उ॒प॒ऽतिष्ठ॑न्ते । आपः॑ ॥

सायणभाष्यम्

हे अग्ने त्वं दिवोऽर्णं द्युलोके वर्तमानमर्णोऽभोऽच्छाभिलक्ष्यजिगासि । धूमद्वारा प्राप्नोषि । किञ्च । धिष्ण्याः । धियं बुद्ध्युपहितं देहमुष्णंत्युष्णीकुर्वन्तीति धिष्ण्याः प्राणाभिमानिनो देवाः । तान्प्राणाख्यान्देवानच्छानुक्रमेणोचिषे । समवेतान्करोषि । समवेता भवतेत्युक्तवानसीत्यर्थः । सूर्यस्य सूर्यलोकस्य परस्तादुपरि रोचने । रोचनो नामायं लोको यत्राग्नेयं ज्योतिस्तपति । तस्मिन्भासमाने रोचनाख्ये लोके या आपो विद्यन्ते अवस्तात्सूर्यलोकादधस्तादन्तरिक्षलोके यश्चाप उपतिष्ठन्ते वर्तन्ते वा उभयीरपस्त्वं प्रेरयसि । उक्तार्थो वाजसनेयिभिः स्पष्टमभिहितः । आपो वा अस्य दिवोऽर्णस्ता एष धूमेनाच्छेत्यच्छा देवा ऊचिषे धिष्न्या य इति प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति या रोचने परस्तात्सूर्यस्य याश्चा वस्तादुपतिष्ठन्त आप इति रोचनो ह नामैषलोको यत्रैष एतत्तपति तद्याश्चैतं परेणापो याश्चावरेण ता एतदाह । श. ब्रा. ७-१-२४ । इति । ता उभयीरपस्त्वं प्रेरयसीति ॥ अर्णम् । ऋ गतावित्यस्मादुदके नुट् चेत्यसुन्नुडागमश्च । अर्यते प्रार्थ्यते तत्पिपासुभिरित्यर्णः । सकारलोपश्चान्दसः । नित्त्वादाद्युदात्तः । जिगासि । गास्तुतौ च छन्दसीत्ययं धातुश्चकाराद्गमने वर्तमानो जुहोत्यादिः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । निघातः । ऊचिषे । ब्रूञ् व्यक्तायां वाचीत्येतस्य लिट आर्धधातुकत्वाद्भ्रुवो वचिः । पा. २-४-५३ । इति वच्यादेशः । असंयोगालिट् किदिति किद्वद्भावाद्वचिस्वपीत्यादिना सम्प्रसारणम् । अभ्यासस्य लिट्यभ्यासस्योभयेषामिति सम्प्रसारणम् । आर्धधातुक इट् । निघातः । धिश्ण्याः । उष प्लुष दाहे । धिय उष्णन्तीति सानसिधर्णसिपर्णसि तण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्या इति निपातनात् यन्नुडागमधात्वादिलोपोपपदह्रस्वादयः सर्वे सिद्धा भवन्ति । नित्त्वादाद्युदात्तः । अवस्तात् । अवरशब्दात् दिक् छब्देभ्यः सप्तमीपञ्चमीत्यादिना अस्तातिः । तस्मिन्व्भाषावर्रस्य । पा. ५-३-४१ । इत्यवादेशः । प्रत्ययस्वरः । उपतिष्ठन्ते । ष्ठा गतिनिवृत्तौ । उपपूर्वात्तिष्ठतेरकर्मकाच्च (पा. १-३-२६) । इत्यात्मनेपदम् । यद्वृत्तयोगादनिघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२