मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २४, ऋक् १

संहिता

अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य ।
दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसे ॥

पदपाठः

अग्ने॑ । सह॑स्व । पृत॑नाः । अ॒भिऽमा॑तीः । अप॑ । अ॒स्य॒ ।
दु॒स्तरः॑ । तर॑न् । अरा॑तीः । वर्चः॑ । धाः॒ । य॒ज्ञऽवा॑हसे ॥

सायणभाष्यम्

विश्वामित्रः स्तौति । हे अग्ने पृतना अभियोक्त्रीः सेनाः सहस्व । अभिभव । अभिमातीरभिमानिनः कर्मविघ्नकारिणः शत्रून् अपास्य । अपनुद । किञ्च दुष्टरो न केनापि तरितुं शक्यः अत एव अरातीररातीन् शत्रून् तरन् स्वतेजसा तिरस्कुर्वम्स्त्ववं यज्ञवाहसे यज्ञनिर्वाहकाय यजमानाय वर्चो धाः । अन्नं धेहि । कुरु ॥ सहस्व । षह मर्षण् इत्यस्य लोटि रूपम् । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । अभिमातीः । माङ् माने । मानं मातिः । भावे क्तिन् । अस्य लुग्विकरणत्वादीत्वेत्वे नभवतः । अभितो मानं येषां त इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अस्य । असु क्षेपणे । दिवादिः । लोटि रूपम् । दुष्टरः । तॄ प्लवनतरणयोः । अस्मात् कृच्छ्रार्थे खल् । सुषामादित्त्वाद्विसर्जनीयस्य सकारस्य षत्वम् । लित्स्वरः । तरन् । तरतेः शतरि रूपम् । अदुपदेशाल्लसर्वधातुकस्वरेण शतुरनुदात्तत्वे कृते धातुस्वरः । धाः । दधातेश्छन्दसि लुङि रूपम् । निघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४