मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २४, ऋक् ३

संहिता

अग्ने॑ द्यु॒म्नेन॑ जागृवे॒ सह॑सः सूनवाहुत ।
एदं ब॒र्हिः स॑दो॒ मम॑ ॥

पदपाठः

अग्ने॑ । द्यु॒म्नेन॑ । जा॒गृ॒वे॒ । सह॑सः । सू॒नो॒ इति॑ । आ॒ऽहु॒त॒ ।
आ । इ॒दम् । ब॒र्हिः । स॒दः॒ । मम॑ ॥

सायणभाष्यम्

द्युम्नेन स्वतेजसा सह जागृवे । जागर्तीति जागृविः । तस्य सम्बुद्धिः । लोकरक्षार्थं स्वतेजसा सह सर्वदा जागरणोपेत आहुत देवताह्वानार्थमस्माभिराहुत सहसः सूनो बलस्य पुत्र हे अग्ने मम मत्सम्बन्धिन्यस्मिन्यज्ञे यद्वेद्यामास्तीर्णमिदं बर्हिस्तत्रासदः । आसीद ॥ जागृवे । जागृ निद्राक्षये । ज्ॠ शॄ स्तॄ जागृभ्यः क्विन्निति क्विन् । कित्त्वाद्गुणः । जागर्तीति जागृविः । जागृविर्जागरणात् । नि. ९-८ । इति यास्कः । सम्बुद्धौ चेति गुणः । एङ्ह्रस्वात् । पा.६-१-६९ । इति सोर्लोपः । निघातः । सदः । षद् लृ विशरणगत्यवसादनेष्वित्यस्य छान्दसे लुङे लृदित्त्वादङ् । निघातः । मम । अस्मच्छब्दस्य षष्ट्येकवचने ममादेशः । युष्मदस्मदोर्ङसीत्याद्युदात्तत्वम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४