मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २४, ऋक् ४

संहिता

अग्ने॒ विश्वे॑भिर॒ग्निभि॑र्दे॒वेभि॑र्महया॒ गिरः॑ ।
य॒ज्ञेषु॒ य उ॑ चा॒यवः॑ ॥

पदपाठः

अग्ने॑ । विश्वे॑भिः । अ॒ग्निऽभिः॑ । दे॒वेभिः॑ । म॒ह॒य॒ । गिरः॑ ।
य॒ज्ञेषु॑ । ये । ऊं॒ इति॑ । चा॒यवः॑ ॥

सायणभाष्यम्

हे अग्ने देवेभिर्द्योतमानैर्विश्वेभिः सर्वैरग्निभिर्यष्टव्यतया स्थितैरग्निभिसहितस्त्वं चायव उक्तविषयस्तुतिरूपाभिर्वाग्भिरनन्यमनस्कतया पूजका ये विद्यन्ते तेषां यज्ञेषु ज्योतिष्टोमादिषु गिरः स्तोत्रशस्त्रादिलक्षणानि वाक्यानि महय । पूजय । मह पूजायाम् । चुरादिः । अदन्तत्वादुपधावृद्ध्यभावः । निघातः । चायवः । चायृ पूजनिशामनयोः । मृगय्वादयश्चेति कुप्रत्ययः । प्रत्ययस्वरः । ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४