मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २५, ऋक् १

संहिता

अग्ने॑ दि॒वः सू॒नुर॑सि॒ प्रचे॑ता॒स्तना॑ पृथि॒व्या उ॒त वि॒श्ववे॑दाः ।
ऋध॑ग्दे॒वाँ इ॒ह य॑जा चिकित्वः ॥

पदपाठः

अग्ने॑ । दि॒वः । सू॒नुः । अ॒सि॒ । प्रऽचे॑ताः । तना॑ । पृ॒थि॒व्याः । उ॒त । वि॒श्वऽवे॑दाः ।
ऋध॑क् । दे॒वान् । इ॒ह । य॒ज॒ । चि॒कि॒त्वः॒ ॥

सायणभाष्यम्

विश्वामित्रः स्तौति । हे अग्ने विश्ववेदाः सर्वविषयज्ञानवान् प्रचेताः कर्मविषयज्ञानवाम्स्त्वं चिवो द्युलोकाभिमानिदेवतायाः सूनुरसि । पुत्रो भवसि । उत अपि च पृथिव्याः पृथिव्यभिमानिदेवतायास्तना तनयोऽसि । किञ्च । चिकित्वश्चेतनावन् हे अग्ने इहास्माभिः क्रियमाणेऽस्मिन्कर्मणि देवान् यजनीयानिन्द्रादिदेवान् ऋधक् पृथक् क्रमेण यज । हविष्प्रदानेन पूजय ॥ आसि । अस भुवीत्यस्य लटि तासस्त्योर्लोप इति सलोपः । निघातः । विश्ववेदाः । बहुव्रीहौ विश्वं संज्ञायामिति विश्वस्यान्तोदात्तत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५