मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २५, ऋक् ३

संहिता

अ॒ग्निर्द्यावा॑पृथि॒वी वि॒श्वज॑न्ये॒ आ भा॑ति दे॒वी अ॒मृते॒ अमू॑रः ।
क्षय॒न्वाजै॑ः पुरुश्च॒न्द्रो नमो॑भिः ॥

पदपाठः

अ॒ग्निः । द्यावा॑पृथि॒वी इति॑ । वि॒श्वज॑न्ये॒ इति॑ वि॒श्वऽज॑न्ये । आ । भा॒ति॒ । दे॒वी इति॑ । अ॒मृते॒ इति॑ । अमू॑रः ।
क्षय॑न् । वाजैः॑ । पु॒रु॒ऽच॒न्द्रः । नमः॑ऽभिः ॥

सायणभाष्यम्

अमूरोऽमूढः सर्वज्ञः क्षयन् ईशानः सर्वस्य जगतः अत एव पुरुश्चन्द्रः पुरुचन्द्रो बहुहिरण्योपेतः । यद्वा । बहुदीप्तिस्वरूपः । वाजैर्बलैर्नमोभिरन्नैश्च सहितः सोऽग्निर्विश्वजन्ये विश्वस्य जनयित्र्यौ । यद्वा विश्वं जन्यमुत्पाद्यं याभ्यान्ते । देवी द्योतमाने अमृते मरणधर्मरहिते द्यावापृथिवी द्यावापृघिव्यावाभाति । आ समन्तात्प्रकाशयति । द्यावापृथिवी । दिवः शब्दस्य दिवो द्यावेति द्यावादेशः आद्युदात्तः । पृथिवीशब्दो ञीषन्तत्वेनान्तोदात्तः । देवताद्वन्द्वे चेत्युभयोः प्रकृतिस्वरत्वम् । विश्वजन्ये । बहुव्रीहौ विश्वं संज्ञायामिति पुर्व पदान्तोदात्तः । तत्पुरुषे तु स्वरश्चिन्तनीयः । आ भाति । भा दीप्तौ । अन्तर्भावितण्यर्थः । क्षयन् । क्षि ऐश्वर्ये । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे धातुस्वरः । पुरुष्चन्द्रः । ह्रस्वाच्चन्द्रोत्तरपदे मन्त्र इति सुडागमः । श्चुत्वेन शकारः । उत्तर पदान्तोदात्त प्रकरणे त्रिचक्रादीनां छन्दस्युपसंख्यानमित्युत्तरपदान्तोदात्तत्वं यद्वा समानस्येत्यन्तोदात्तत्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५