मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २५, ऋक् ४

संहिता

अग्न॒ इन्द्र॑श्च दा॒शुषो॑ दुरो॒णे सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातम् ।
अम॑र्धन्ता सोम॒पेया॑य देवा ॥

पदपाठः

अग्ने॑ । इन्द्रः॑ । च॒ । दा॒शुषः॑ । दु॒रो॒णे । सु॒तऽव॑तः । य॒ज्ञम् । इ॒ह । उप॑ । या॒त॒म् ।
अम॑र्धन्ता । सो॒म॒ऽपेया॑य । दे॒वा॒ ॥

सायणभाष्यम्

हे अग्ने त्वमिन्द्रश्चोभौ देवा देवौ युवाममर्धन्ता अनागमनेन यज्ञहिम्सामकुर्वन्तौ सन्तौ सुवतः सोमाभिषवं कुर्वतो दाशुषो हविर्दत्तवतो यजमानस्येह दुरोणे गृहे क्रियमाणमिमं यज्ञमभिलक्ष्य सोमपेयाय सोमपानार्थमुप यातम् । उप समीप आगच्छतं ॥ यातं या प्रापण इत्यस्य लोटि रूपम् । निघातः । अमर्धन्ता । मृधु हिंसायामित्यस्य शतरि रूपम् । नञा समासः । सुपोडादेशः । तत्पुरुषे नञ्स्वरः । सोमपेयाय । पापाने । आचो यदिति यत् । ईत्यतीतिकारादेशः । आर्धधातुकलक्षणो गुणः । कृदुत्तरपदप्रकृतिस्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५