मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २६, ऋक् ३

संहिता

अश्वो॒ न क्रन्द॒ञ्जनि॑भि॒ः समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे ।
स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः ॥

पदपाठः

अश्वः॑ । न । क्रन्द॑न् । जनि॑ऽभिः । सम् । इ॒ध्य॒ते॒ । वै॒श्वा॒न॒रः । कु॒शि॒केभिः॑ । यु॒गेऽयु॑गे ।
सः । नः॒ । अ॒ग्निः । सु॒ऽवीर्य॑म् । सु॒ऽअश्व्यम् । दधा॑तु । रत्न॑म् । अ॒मृते॑षु । जागृ॑विः ॥

सायणभाष्यम्

यो वैश्वानरोऽग्निः कुशिकेभिः स्तोत्रं कुर्वाणैर्होत्रादिभिर्युगे युगे प्रतिदिनं समिध्यत आज्याहुतिप्रक्षेपेण सम्यक् दीप्यते तत्र दृष्टान्ब्तः अश्वोनेति यथा जातोऽश्वः क्रन्दन् हेषारवं कुर्वन् जनिभिर्जनयित्रीभिर्बडवाभिःस्तन्यप्रदानेन प्रतिदिनं सम्यक् पोष्यते तद्वत् । अमृतेषु मरणधर्मरहितेषु देवेषु मध्येजागृविर्ज्वालया जाग्रत् दीप्यमानः सोऽग्निः सुवीर्यं शोभनापत्ययुक्तं स्वश्व्यं शोभनाश्वादिपशुयुक्तं रत्नमुत्तमं धनं नोऽस्माकं दधातु । विदधातु । प्रयच्छतु ॥ युगेयुगे । नित्यवीप्सयोरिति द्विर्वचनम् । षरस्याम्रेडितत्वादनुदात्तत्वे पूर्वपदप्रकृतिस्वरह् । अश्वशब्दः क्वन्प्रत्ययान्त आद्युदात्तः । बहुव्रीहावाद्युदात्तं द्वच् छन्दसीत्युत्तरपदाद्युदात्तत्तम् । यकारोपजनश्छान्दसः । यद्वा । अश्वेषु साधवोऽश्व्याः । तत्र साधुरिति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । बहुव्रीहौ पूर्वोक्तस्वरः । दधातु । दधातेर्लोटि रूपम् । रत्नम् । रमु क्रीडायाम् । रमेस्त चेत्यधिकरणे नप्रत्ययस्तकारश्चान्तादेशः । रमेऽस्मिन्निति रत्नम् । निदित्यनुवृत्तावाद्युदात्तः । जागृविः । क्विन्प्रत्ययान्तः । नित्त्वादाद्युदात्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६