मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २६, ऋक् ७

संहिता

अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ म आ॒सन् ।
अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ॥

पदपाठः

अ॒ग्निः । अ॒स्मि॒ । जन्म॑ना । जा॒तऽवे॑दाः । घृ॒तम् । मे॒ । चक्षुः॑ । अ॒मृत॑म् । मे॒ । आ॒सन् ।
अ॒र्कः । त्रि॒ऽधातुः॑ । रज॑सः । वि॒ऽमानः॑ । अज॑स्रः । घ॒र्मः । ह॒विः । अ॒स्मि॒ । नाम॑ ॥

सायणभाष्यम्

साक्षात्कृतपरतत्त्वरूपोऽग्निर्द्वृचेन स्वात्मनः सर्वात्मकत्वानुभवमाविष्करोति । हे कुशिकाः । भोक्तृभोग्यभावेन द्विविधं हीदं सर्वं जगत् । एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नाद इति श्रुतेः । तत्र सकलभोक्तृवर्गरूपाणान्नादोऽग्निः । स चाग्निवाय्वादित्यभेदेन त्रेधा भूत्वा पृथिव्यन्तरिक्ष द्युलोकानधितिष्ठति । तदुक्तं वाजसनेयके । स त्रेधात्मानं व्यभजत । आदित्यं तृतीयं वायुं तृतीयमिति । तत्र सोऽग्निरहं जन्मनैव जातवेदा अस्मि । श्रवणमननादिसाधननिरचेक्षण स्वभावत एव साक्षात्कृतपरतत्त्वस्वरूपोऽस्मि । घृतं मे चक्षुः । यदेतद्विश्वस्य विभासकं मम स्वभावभूतप्रकाशात्मकं चक्षुस्तद्घृतम् । इदानीमत्यन्तः दीप्तं यदेतदमृतम् कर्मफलं दिव्यादिव्यविविधविषयोवभोगात्मकं तन्मे ममासन् । अस्ये वर्तते । सकलभोक्तृवर्गात्मना स्वयमेवावस्थानात् । एवं स्वात्मनः पृथिव्यधिष्ठातृरूपतामभिधाय वाय्वात्मनान्तरिक्षाधिष्ठातृतामाह । अर्को जगत् स्रष्टा प्राणः । सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वम् । श. ब्रा. १०-६-५ । इति श्रुतेः । स प्राणोऽहं त्रिधातुः । त्रेधात्मानं विभज्य तत्र वाय्वात्मना रजसोऽन्तरिक्षस्य विमानो विमाताधिष्ठातास्मि । तथादित्यरूपेण द्युलोकाधिष्थातृतामाह । अजस्रो घर्म इति । अजस्रोऽनुपक्षीणो घर्मः प्रकाशात्मा द्युलोकाधिष्थातादित्योऽहमस्मि । एवं भोक्तृरूपमात्मनोऽनुसन्धाय भोग्यरूपतामप्यनुसन्धत्ते । यद्धविर्भोग्यं प्रसिद्धमस्ति तदप्यहमेवास्मि । यद्वा । अहमग्निरस्मि । देवानां हविष्प्रापणादङ्गनादिगुणयुक्तोऽस्मि । किञ्च जन्मनोत्पत्त्या जातवेदा जातप्रज्ञोऽस्मि । उत्पत्तिक्षण एव सर्वज्ञोऽहमस्मि अथवा जातं सर्वं स्मात्मरूपतया वेत्तीति जातवेदाः । सर्वात्मक इत्यर्थः । तत्क्थमित्युच्यते । घृतं मे चक्षुः । यदेतद्घृतं प्रसिद्धमस्ति तन्मे चक्षुः स्थानीयम् । यथा लोके चक्षुर्भासकं एवं घृतं मयि प्रक्षिप्तं ज्वालामुत्पादयन्ममभासकम् । अमृतं प्रभारूपं यदमृतमविनाशि ज्योतिर्मे ममासन् । आस्ये वर्तते । त्रिधातुः प्राणापानाव्यानात्मना त्रिधा वर्तमानोऽर्कोऽर्चनीयो यो प्राणोऽस्ति सोऽप्यहमेवास्मि । तथा च रजसोऽन्तरिक्षस्य विमानो विशेषण माता परिच्छेत्ता वायुश्चाहमस्मि । किञ्च । अजस्रो घर्मो नैरन्तर्येण सन्तापकारी सूर्यश्चाहमस्मि । किं बहुना आज्यपुरोडाशादिरूपं यदेतद्धविरस्ति तदुपलक्षितं सर्वमप्यहमस्मि । सर्वं खल्विदं ब्रह्मेति श्रुतेः । नामशब्दः प्रसिद्धौ । तदनेनाग्नेः सर्वात्मकत्वप्रतिपादनेन परब्रह्मत्वमुक्तं भवति ॥ चक्षुः । चक्षिङ् व्यक्तायां वाचि । उसिन्नित्यनुवृत्तौ चक्षेः शिच्चेत्युसिन् । शिद्वद्भावात् ख्याञादेशाभावः । नित्स्वरः । आसन् । आस्य शब्दस्य पद्दन्नोमासित्यादिना आसनादेशः । सुपां सुलुगिति सप्तम्यालुक् । विमानः । माङ् माने । कृत्युल्ल्युटो बहुलमिति कर्तरि ल्युट् । लित्स्वरः । अजस्रः । जसु मोक्षणे । नञ् पूर्वः । नमिकम्पिस्म्यजसकमहिम्सदीपो रः । पा. ३-२-१६७ । इति ताच्छीलिको रप्रत्ययः । नञ् पूर्वो जसिर्नैरन्तर्ये वर्तते नञ्स्वरः । जस उपक्षये वा ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७