मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २६, ऋक् ८

संहिता

त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॒॑र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् ।
वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा॑पृथि॒वी पर्य॑पश्यत् ॥

पदपाठः

त्रि॒ऽभिः । प॒वित्रैः॑ । अपु॑पोत् । हि । अ॒र्कम् । हृ॒दा । म॒तिम् । ज्योतिः॑ । अनु॑ । प्र॒ऽजा॒नन् ।
वर्षि॑ष्ठम् । रत्न॑म् । अ॒कृ॒त॒ । स्व॒धाभिः॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । परि॑ । अ॒प॒श्य॒त् ॥

सायणभाष्यम्

सर्वात्मकोऽग्निर्हृदान्तःकरणवृत्त्यामतिं मननीयं ज्योतिः स्वप्रकाशरूपं परब्रह्माख्यं तेजोऽनु प्रजानन् श्रवणमननादिक्रमेण प्रकर्षेण सम्शयविपर्यासभावनाबुद्धिनिरासेन स्वात्मरूपतया जानानः सन् पवित्रैः पावनैस्त्रिभिरग्निवायुसूर्यैरर्कमर्चनीयं स्वात्मानमपुपोद्धि । तेभ्योऽपि निर्मलतया पावनं परिच्छिच्छेद खलु यथा दशापवित्रेण सोमं पावयति तद्वत् । एवं जानानोऽग्निर्वर्षिष्ठं स्वात्मानमुत्तमं स्वधाभिः । स्वेन लोकान्दधातीति स्वधा । तैरग्निवायुसूर्यै रत्नं रमणीयमकृत । अकार्षीत् । आदित् अनन्तरमेवमात्मनि ज्ञाते सति द्यावापृथिवी तत्र परिकल्पिते द्यावापृथिवौ तदुपलक्षितं सर्वं जगच्च पर्यपश्यत् । परितः सर्वतः स्वात्मतयाऽदर्शत् । आत्मनि विज्ञाते सर्वमिदं विज्ञातं भव्तीति श्रुतेः । पवित्रैः । पूञ् पवने । अस्मात्कर्तरि चर्षिदेवतयोः । पा. ३-२-१८६ । इति देवतायामभिधेयायां कर्तरि इत्रप्रत्ययः । पुनरेतीति पवित्रा अग्निवायुसूर्याः । प्रत्ययस्वरः । अपुपोत् । पूञ् पवने इत्यस्य यङ् लुगन्तस्य रूपम् । संज्ञा पूर्वकस्य विधेरनित्यत्वादभ्यासस्य गुणाभावः । यद्धितुपरं छन्दसि । पा. ८-१-५६ । इति न निघातः । अर्कम् । अर्च पूजायाम् । कृदाधारार्चिकलिभ्यः क इति क प्रत्ययः । हृदा । हृदयशब्दस्य पद्दन्नोमासित्यादिना हृदादेशः । मतिम् । मनज्ञाने । मन्त्रे वृषेषपचेत्यादिना कर्मणि क्तिन् उदात्तः । अकृत । परोतेर्लुङि सिच् । तस्य ह्रस्वादङ्गादिति लोपः । द्यावापृथिवी । देवताद्वन्द्वे चेत्युभयपदप्रकृतिस्वरः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७