मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २७, ऋक् ३

संहिता

अग्ने॑ श॒केम॑ ते व॒यं यमं॑ दे॒वस्य॑ वा॒जिनः॑ ।
अति॒ द्वेषां॑सि तरेम ॥

पदपाठः

अग्ने॑ । श॒केम॑ । ते॒ । व॒यम् । यम॑म् । दे॒वस्य॑ । वा॒जिनः॑ ।
अति॑ । द्वेषां॑सि । त॒रे॒म॒ ॥

सायणभाष्यम्

हे अग्ने वाजिनः सम्भृत हविष्का वयं देवस्य द्योतमानस्य ते तव यमं यमनमा यज्ञसमीप्तेरत्रावस्थानं कर्तुं शकेम । शक्यास्म । वाजिनो वेगवतो देवस्येति वा योजनीयम् । ततः कारणात् द्वेषांस्यस्मदीयानि पापान्यतितरेम । पापेभ्य उत्तीर्णा भवेम ॥ शकेम । शक् लृ शक्तावित्यस्याशीर्लिङे लिङ्याशिष्य ङ्गेत्यङ् प्रत्ययः । किदाशिषीति यासुट् । सलोपेयादेशयलोपगुणसलोपाः । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । उदात्तनिवृत्तिस्वरः । यमं यम उपरम इत्यस्माद्भावे घङ् । यम उपरम इतिनिपादनाद्वृद्ध्यभावः । ञित्स्वरः । तरेम । शॄप्लवनतरणयोः । प्रार्थने लिङे रूपम् । निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८