मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २८, ऋक् १

संहिता

अग्ने॑ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं॑ जातवेदः ।
प्रा॒त॒ःसा॒वे धि॑यावसो ॥

पदपाठः

अग्ने॑ । जु॒षस्व॑ । नः॒ । ह॒विः । पु॒रो॒ळाश॑म् । जा॒त॒ऽवे॒दः॒ ।
प्रा॒तः॒ऽसा॒वे । धि॒या॒व॒सो॒ इति॑ धियाऽवसो ॥

सायणभाष्यम्

विश्वामित्रः स्तौति । जातवेदः जातप्रज्ञ धियावसो । धिया स्तोत्रेण वसुधनं यस्माद्भवति सोऽयं धियावसुः । तस्य सम्बुद्धिः । कर्मानुरूपधनप्रद हे अग्ने प्रातः सावेऽग्निष्टोमे प्रातः सवने नोऽस्मत्सम्बन्धि पुरोडाशं पुरोडाशाख्यं हविर्जुषस्व । सेवस्व ॥ जुषस्व । जुषीप्रीतिसेवनयोरित्यस्माल्लोटि रूपम् । आमन्त्रितस्याविद्यमानवत्त्वेन पादादित्वादनिघातः । प्रातः सावे । षुञ् अभिषवे । नवनं सावः भावे घञ् । थाथघञ् क्ताजबित्रकाणामित्यन्तोदात्तत्वम् । धियावसो । विभक्त्यलोपश्छान्दसः । आमन्त्रितत्त्वान्निघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१