मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २८, ऋक् ५

संहिता

अग्ने॑ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं॑ सहसः सून॒वाहु॑तम् ।
अथा॑ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्तम॒मृते॑षु॒ जागृ॑विम् ॥

पदपाठः

अग्ने॑ । तृ॒तीये॑ । सव॑ने । हि । कानि॑षः । पु॒रो॒ळाश॑म् । स॒ह॒सः॒ । सू॒नो॒ इति॑ । आऽहु॑तम् ।
अथ॑ । दे॒वेषु॑ । अ॒ध्व॒रम् । वि॒प॒न्यया॑ । धाः । रत्न॑ऽवन्तम् । अ॒मृते॑षु । जागृ॑विम् ॥

सायणभाष्यम्

सहसः सूनो बलस्य पुत्र हे अग्ने त्वं तृतीये सवन आहुतं हूयमानं पुरोडाशं कानिषः । कामयसे । अथ अनन्तरमध्वरमविनाशिनं रत्नवन्तं । रत्नशब्देन स्वर्गादिलक्षणमुत्तमं फलमभिधीयते । तद्वन्तं फलप्रदं जागृविं जागरणकारणं । प्रातः सोमो जागृविर्भवति स्वप्ननिवारक इति । तमिमं सोमं विपन्यया स्तुतिलक्षणया वाचा स्तुतस्त्वममृतेषु मरणधर्मरहितेषु देवेष्विन्द्रादिषु धाः । धेहि हिपूरणः ॥ तृतीये । त्रिशब्दात्पूरणार्थे त्रेः सम्प्रसारणं । पा. ५-२-५५ । इति तीयप्रत्ययः । तत्सन्नियोगेन सम्प्रसारणं । हल इति दीर्घो न भवति । अन्निति तत्र नानुवर्तनात् प्रत्ययस्वरः । कानिषः । कनी कान्त्यादिषु । लेटि सिब्बहुलमिति सिप् । तस्यार्धधातुकत्वादिडागमः । कान्तिरभिलाषः । अकारस्य अकारो व्यत्ययेन हियोगादनिघातः । धातुस्वरः । विपन्यया । पन स्तुतौ । भाए क्विप् । विपनं यातीति क प्रत्ययः । प्रत्ययस्वरः । धाः । दधात्रेधातोश्छान्दसे लुङि रूपं । पादादित्वादनिघातः । जागृवीं । क्विन्प्रत्ययान्तो जागृविशब्दः । नित्स्वरः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१