मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २८, ऋक् ६

संहिता

अग्ने॑ वृधा॒न आहु॑तिं पुरो॒ळाशं॑ जातवेदः ।
जु॒षस्व॑ ति॒रोअ॑ह्न्यम् ॥

पदपाठः

अग्ने॑ । वृ॒धा॒नः । आऽहु॑तिम् । पु॒रो॒ळाश॑म् । जा॒त॒ऽवे॒दः॒ ।
जु॒षस्व॑ । ति॒रःऽअ॑ह्न्यम् ॥

सायणभाष्यम्

जातवेदो जातप्रज्ञ हे अग्ने वृधान आहुतिभिर्वर्धमानस्त्वं तिरोअह्नम् । अह्नि भवमह्न्यं दिवसकृत्यम् । तिरोभूतमह्न्यं यस्मिन्काले स तिरो अह्न्यो रात्रकालः । तस्मिन्काल आहुतिं पुरोडाशाख्यं हविर्जुषस्व । सेवस्व । आहुतिम् । जुहोतेः कर्मणि क्तिन् । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१