मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २९, ऋक् ५

संहिता

मन्थ॑ता नरः क॒विमद्व॑यन्तं॒ प्रचे॑तसम॒मृतं॑ सु॒प्रती॑कम् ।
य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रस्ता॑द॒ग्निं न॑रो जनयता सु॒शेव॑म् ॥

पदपाठः

मन्थ॑त । न॒रः॒ । क॒विम् । अद्व॑यन्तम् । प्रऽचे॑तसम् । अ॒मृत॑म् । सु॒ऽप्रती॑कम् ।
य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रस्ता॑त् । अ॒ग्निम् । न॒रः॒ । ज॒न॒य॒त॒ । सु॒ऽशेव॑म् ॥

सायणभाष्यम्

नरः कर्माणां नेतारो हे अध्वर्व्यादयः कविं क्रान्तदर्शिनमद्वयन्तम् द्वयमनाचरन्तमद्वैतं कुर्वाणं मनसा वाचा चैकविधमेव कर्म कुर्वाणमत एव प्रचेतसं प्रकृष्टज्ञानोपेतममृतं मरणधर्मरहितं सुप्रतीकं शोभनैरङ्गैर्ज्वालाभिः समेतं तमिममग्निं मन्थत । मन्थनेन निष्पादयत । किञ्च । हे नरः कर्माणां नेतारोऽध्वर्य्वादयो यूयं यज्ञस्य ज्योतिष्टोमादेः केतुं प्रज्ञापकं प्रथमं मुख्याङ्गभूतम् । अग्निपूर्वकत्वात्सर्वेषामुत्तरक्रतूनाम् । सुशेवं शोभनसुखोपेतम् तादृशमग्निं पुरस्तात्कर्मणः प्रारम्भे जनयत । तमिममग्निमेवंगुणयुक्तं कुरुतेति भावः । मन्थत । मन्थ विलोडने । लोटि रूपम् । पादादितादनिघातः । नरः । णी ञ प्रापणे नयतेर्दिच्च । उ. २-२५७ । इति ऋप्रत्ययः । डित्त्वाट्टिलोपः । नयन्ति कर्माणि नीयन्ते कर्माण्येभिरिति वा नरः । आमन्त्रितत्वान्निघातः । अद्वयन्तम् । द्वयमिवाचरतीत्यर्थे सर्वप्रातिपदिकेभ्यः क्विप् वक्तव्य इत्याचारार्थे क्विप् । द्वयति । तस्य शतरि रूपं द्वयन्निति । न द्वयन्नद्वयन् । तम् । तत्पुरुषे नञ् स्वरः । सुप्रतीकम् । बहुव्रीहौ क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वम् । जनयत । जनी प्रादुर्भावे । णिच् । अत उपधाया इति वृद्धौ प्राप्तायां जनीजॄष्क्नसुरंजोऽमन्ताश्चेति मिद्वद्भावान्मितां ह्रस्व इति ह्रस्वः । निघातः । सुशेवम् । शेवशब्दो वन्प्रत्ययान्त आद्युदात्तः । बहुव्रीहावाद्युदात्तं द्वच्छन्दसीत्युत्तरपदाद्युदात्तत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२