मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २९, ऋक् ९

संहिता

कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे॑धन्त इतन॒ वाज॒मच्छ॑ ।
अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ येन॑ दे॒वासो॒ अस॑हन्त॒ दस्यू॑न् ॥

पदपाठः

कृ॒णोत॑ । धू॒मम् । वृष॑णम् । स॒खा॒यः॒ । अस्रे॑धन्तः । इ॒त॒न॒ । वाज॑म् । अच्छ॑ ।
अ॒यम् । अ॒ग्निः । पृ॒त॒ना॒षाट् । सु॒ऽवीरः॑ । येन॑ । दे॒वासः॑ । अस॑हन्त । दस्यू॑न् ॥

सायणभाष्यम्

यजमानोऽध्वर्व्यादीन्प्रति ब्रूते । हे सखायः कर्मसहकारिणो यूयं वृषणं कामानां वर्षितारं धूमम् । धुनोति कम्पयतीति धूमोऽग्निः । एवंविधमग्निं कृणोत । कुरुत । मन्थनेनोत्पादयत । यद्यग्निर्नजायते तदा नीमाह । अस्रेधन्तोऽक्षीणा अनुपरतसामर्थ्याः सन्तो यूयं वाजं मन्थनलक्षणं युद्धमच्छाग्न्याभिमुख्येनेतन । प्रप्नुत । सुवीरः । शोभनसामर्थ्योपेतोऽयमग्निः पृतनाषाट् पृतनोपलक्षितं युद्धं सहमानो भवति । येन युद्धं सहमानेनाग्निना देवासो देवा दस्यूनुपक्षयितृनसुरानसहन्त अभ्यभवन् । तस्मादक्षीणबला यूयं मन्थनं कुरुतेति भावः ॥ कृणोत । कृवि हिंसाकरणयोः । लोटि तप्रत्ययस्य तप्तनप्तनथनाश्चेति तबादेशः । पित्त्वाद्गुणः । पादादित्वादनिघातः । उप्रत्ययस्वरः । धूमम् । धूञ् कम्पने । इषियुधीन्धिदसीत्यादिना मक् । कित्त्वाद्गुणाभवः । धुनोति कम्पयति दाह्यानीति धूमोऽग्निः । प्रत्ययस्वरः इतन । इण् गतावित्यस्य लोटि तप्रत्ययस्य तनादेशम् । निघातः । पृतनाषाट् । षह मर्षणे । छन्दसि सह इति ण्विः । णित्त्वादुपधावृद्धिः । सहे साडः स इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरः । असहन्त । षह मर्षण इत्यस्य लङि रूपम् । यद्योगादनिघातः । दस्यून् । दसु उपक्षये । यजिमनिशुन्धिदसिजनिभ्यो युजिति युच् । दस्यन्तीति दस्यवः शत्रवः । व्यत्ययेनाद्युदात्तत्वं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३