मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २९, ऋक् १०

संहिता

अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
तं जा॒नन्न॑ग्न॒ आ सी॒दाथा॑ नो वर्धया॒ गिरः॑ ॥

पदपाठः

अ॒यम् । ते॒ । योनिः॑ । ऋ॒त्वियः॑ । यतः॑ । जा॒तः । अरो॑चथाः ।
तम् । जा॒नन् । अ॒ग्ने॒ । आ । सी॒द॒ । अथ॑ । नः॒ । व॒र्ध॒य॒ । गिरः॑ ॥

सायणभाष्यम्

हे अग्ने ऋत्वियो वसन्ताद्यृतौ भवोऽयमङ्गुल्या निर्दिश्यमानः पालाशाश्वत्थादिमयः काष्ठविशेषोऽरणिस्ते तव योनिरुत्पत्तिस्थानं यतोऽरणेर्जातस्त्वमरोचथा । आशोभथाः । जानन्स्त्वं तमरणिरूपं काष्ठविशेषमासीद । तस्यामरण्यामारोपितः सन् नैरन्तर्येण तिष्ठ । अथानन्तरं नोऽस्माकं गिरः स्तुतिलक्षणा वाचो वर्धय । यद्वा गीः शब्देन तद्वन्तो लक्ष्यन्ते । तथा स्तोतॄनस्मान् वर्धय । पशुपुत्रादिभिः समृद्धान् कुरु ॥ योनिः । यु मिश्रणे । वहिश्रीत्यादिना निप्रत्ययः । निदित्युक्तत्वादाद्युदात्तः । ऋत्वियः । छन्दसि घसित्यृतुशब्दात्प्राप्तार्थे घस् प्रत्ययः । घस्य इयादेशः । सितीति पदसंज्ञायां ओर्गुणः । पा. ६-४-१४६ । इति संज्ञाधीनो गुणो न भवति । प्रत्ययस्वरः । आरोचथाः । रुच दीप्तावित्यस्य लङि रूपम् । यद्वृत्तयोगादनिघातः । सीद । सदेर्लोटि पाघ्रेत्यादिना सीदादेशः । निघातः । अथा । निपातस्य चेति साम्हितिको दीर्घः । वर्धय । वृधु वर्धने । हेतुमति णिच् । निघातः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३