मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २९, ऋक् १३

संहिता

अजी॑जनन्न॒मृतं॒ मर्त्या॑सोऽस्रे॒माणं॑ त॒रणिं॑ वी॒ळुज॑म्भम् ।
दश॒ स्वसा॑रो अ॒ग्रुवः॑ समी॒चीः पुमां॑सं जा॒तम॒भि सं र॑भन्ते ॥

पदपाठः

अजी॑जनन् । अ॒मृत॑म् । मर्त्या॑सः । अ॒स्रे॒माण॑म् । त॒रणि॑म् । वी॒ळुऽज॑म्भम् ।
दश॑ । स्वसा॑रः । अ॒ग्रुवः॑ । स॒मी॒चीः । पुमां॑सम् । जा॒तम् । अ॒भि । सम् । र॒भ॒न्ते॒ ॥

सायणभाष्यम्

मर्त्यासो मर्त्या ऋत्विजोऽमृतं मरणधर्मरहितं अत एवास्रेमाणं क्षयरहितम् वीळुजम्भं हविर्भक्षणार्थं दृढदन्तं तरणिम् । तरन्ति यजमानाः पापमनेनेति तरणिरग्निः । तमजीजनन् । मन्थनेनोदपीपदन् । अथ जातं तमग्निमभिलक्ष्य स्वसारः सरन्त्यो दश दशसंख्याका अग्रुवः । कर्मकरणार्थमग्रमङ्गन्तीत्यग्रुवोङुलयः । तादृशा अङ्गुलयः समीचीः परस्परं सङ्गताः सत्यः सम्रभन्ते । शब्दं कुर्वते । जातमग्निं दृष्ट्वाध्वर्व्यादयो हर्षाद्धस्तद्वयसम्पुटेन शब्द कुर्वन्तीत्यर्थः । तत्र दृष्टान्तः । पुमांसमिति । यथा जातं पुत्रमुपलभ्य तत्रत्याः पित्रादयो हर्षादुद्घोषन्ति तद्वत् ॥ अजीजनन् । जनी प्रादुर्भाव इत्यस्य ण्यन्तस्य लुङे चङे रूपम् । अस्रेमाणम् । स्रिवु गतिशोषणयोः । भावे मनिन्निति मनिन्प्रत्ययः । लघूपधगुणः । लपो व्योर्वलीति वलोपः । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । तरणिं तॄप्लवनतरणयोः । अर्तिसृधृधम्यम्यश्य वितॄभ्योऽनिरित्यनिप्रत्ययः । गुणः । प्रत्ययस्वरः । स्वसारः । असु क्षेपण इत्यस्मात्सुञ्यसेरृन्निति ऋन् प्रत्ययः । सुष्ठु अस्यन्ति कर्मसु पदार्थानिति स्वसारः । न षट् स्वस्रादिभ्यः इति ङीपः प्रतिषेधः । नित्त्वादाद्युदात्तः । अग्रुवः । अगि गतौ । जत्र्वादयश्च । उ. ४-१-२ । इति रुप्रत्ययः । निपातनान्नलोपः । जसि तन्वादित्वादुवङादेशः । प्रत्ययस्वरः । समीचीः । इण् गतावित्यस्मात्समीणः । उ. ४-९२ । इति चट् प्रत्ययो धातोर्दीर्घष्च । टित्त्वाट्ट्ड्ढाणञेत्यादिना ङीप् । संयन्तीति समीच्यः । यद्वा सम्पूर्वस्याञ्चतेः क्विप् । समः समीति समि त्यादेशः । अञ्चतेश्चोपसंख्यानमिति ङीप् । अच इत्याकारलोपः । चाविति दीर्घः । वा छन्दसीति पुर्वसवर्णदीर्घः । एकादशस्वरः । पुमांसम् । पा रक्षण इत्यस्मत्पातेर्डुम्सुन् । उ. ४-१७७ । इति डुम्सुन्प्रत्ययः । पुंसोऽसुङ् । पा. ७-१-८९ । इत्यसुङादेशः । पाति कुलमिति पुमान् । नित्स्वरः । रभन्ते । रभ शब्द इत्यस्य लटि रूपम् । निघातः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४