मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २९, ऋक् १५

संहिता

अ॒मि॒त्रा॒युधो॑ म॒रुता॑मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः ।
द्यु॒म्नव॒द्ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे॑ अ॒ग्निं समी॑धिरे ॥

पदपाठः

अ॒मि॒त्र॒ऽयुधः॑ । म॒रुता॑म्ऽइव । प्र॒ऽयाः । प्र॒थ॒म॒ऽजाः । ब्रह्म॑णः । विश्व॑म् । इत् । वि॒दुः॒ ।
द्यु॒म्नऽव॑त् । ब्रह्म॑ । कु॒शि॒कासः॑ । आ । ई॒रि॒रे॒ । एकः॑ऽएकः । दमे॑ । अ॒ग्निम् । सम् । ई॒धि॒रे॒ ॥

सायणभाष्यम्

अमित्रायुधोऽमित्रैः कर्मविघ्नकारिभिरसुरैः सह योद्धारः । यद्वा अम्त्राणि पापानि । तैः सह योद्धारः । तत्र दृष्टान्तः । मरुतामिव प्रया इति । यथा मरुतां देवानां प्रयाः प्रकर्षेण शत्रूनभियान्तीति प्रया बलानि शत्रूणां हन्तॄणि तद्वत्कर्मविघ्नकारिणां पापानां च हन्तारो ब्रह्मणः सर्वस्य जगतः स्रष्टुः प्रथमजाः प्रथममुत्पन्नाः कुशिकासः कुशिगोत्रोत्पन्ना ऋषयो विश्वं स्थावरजङ्गमात्मकं सर्वं जगद्विदुरित् । जानन्त्येव । तेऽमी कुशिकाद्युम्नवद्धविर्युक्तं ब्रह्मस्तोत्रमेरिरे । अग्नय आ समन्तात् प्रेरयति । ते च दमे स्वे स्वे गृह एक एक एकैको भूत्वाग्निं समीधिरे । आज्याद्याहुतिभिः सम्यग्दीपयन्ति ॥ अमित्रायुधः । युधसम्प्रहरे । क्विप् । कृदुत्तरपदस्वरः । सम्हितायां पुर्वपदस्य दीर्घश्छान्दसः । प्रयाः या प्रापणे । अन्योभ्योऽपि दृश्यन्त इति विच् । प्रथमजाः । जनी प्रादुर्भावे । जन सनेत्यादिना विट् । विड्वनोरित्यात्वम् । विदुः । विदेर्लटि विदो लटो वेति झेरुसादेशः । ईरिरे । ईर गतावित्यस्य लिटि रूपम् । मन्त्रत्वादाम्न भवति । दमे । दमु उपशमने । करणे घञ् । नोदात्तोपदेशस्येति वृद्धिप्रतिषेधः । ञेत्स्वरः । ईधिरे । ञे इन्धी दीप्तावित्यस्य लिटि इन्धिभवतिभ्यां चेति किद्वद्भावान्नकारलोपः । निघातः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४