मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् १०

संहिता

अ॒ला॒तृ॒णो व॒ल इ॑न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या॑र ।
सु॒गान्प॒थो अ॑कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणी॑ः पुरुहू॒तं धम॑न्तीः ॥

पदपाठः

अ॒ला॒तृ॒णः । व॒लः । इ॒न्द्र॒ । व्र॒जः । गोः । पु॒रा । हन्तोः॑ । भय॑मानः । वि । आ॒र॒ ।
सु॒ऽगान् । प॒थः । अ॒कृ॒णो॒त् । निः॒ऽअजे॑ । गाः । प्र । आ॒व॒न् । वाणीः॑ । पु॒रु॒ऽहू॒तम् । धम॑न्तीः ॥

सायणभाष्यम्

हे इन्द्र अलातृणः । बहूदकतयालमत्यर्थमातृद्यते हिंस्यत इत्यलातृणः । गोर्माध्यमिकाया वाचो व्रजो गोष्ठभूतो वलः । वृणोत्याकाशमिति वलो मेघः । पुरा हन्तोस्तव वज्रप्रहारात् प्राक् भयमानो बिभ्यद्व्यार । विशिल्ष्टो बभूव । अनन्तरं स इन्द्रो गा आपो निरजे निर्गमयितुं सुगान् सुगमान् पथो मार्गानकृणोत् । अकरोत् । अतो वाणीर्वननीया धमन्तीः शब्दायमानास्ता आपः पुरुहूतं बहुभिराहुतं पार्थिवमुदकं प्रति प्रावन् । अभ्यागच्छन् । एतामृचं यास्क एवं व्याख्यत् । अलातृणो वल इन्द्र वज्रो गोः । अलातृणोऽलमातर्दनो मेघो वलो वृणोतेर्व्रजो व्रजत्यन्तरिक्षे गोरेतस्या माध्यमिकाया वाचः पुरा हननाद्भयमानो व्यार । सुगान्पथो अकृणोन्निरजे गाः । सुगमनान्पथोऽकरोन्निर्गमनाय गवाम् । प्रावन्वाणीः पुरुहूतं धमन्तीः आपो वा वहनाद्वाचो वा वदनाद्बहुभिराहूतमुदकं भवति । धमतिर्गतिकर्मा । नि. ६-२ । अलातृणः । तृहि हिंसायाम् । अलंपुर्वात्तृहेर्घञर्थे कविधानमिति कर्मणि क प्रत्ययः । अलमो मकारस्याकारः । समासस्वरः । वलः । वल संवरणे । वल्यत आच्छाद्यते नभोऽनेनेति वलो मेघः । पुंसि संज्ञायामिति घः । प्रत्ययस्वरः । व्रजः । व्रज गतौ । गोचरसञ्चरेत्यादिना । पा. ३-३-११९ । घ प्रत्ययान्तत्वेन निपातनात्कुत्वाभावः । व्रजत्यन्तरिक्षक इति । प्रत्यय स्वरः । भयमानः । ञिभीभये । व्यत्ययेन शप् । आर । ऋ गातवित्यस्य लिटि णलि रूपम् । निघातः । सुगान् । गम्लृ गतावित्यस्मादधिकरणे सुदोरोरधिकरण इति डप्रत्ययः । डित्त्वाट्टिलोपः । डित्त्वाट्टिलोपः । कृत्स्वरः । निरजे । अज गतिक्षेपनौयोरित्यस्मात्संपादद्क् लक्षणो भावे क्विप् । कृदुत्तरस्वरः ॥ आवन् । अव रक्षणगत्यादिष्टितस्य लङि रूपम् । पुरुहूतम् । हूयतेर्निष्ठायां यजादित्वात्संप्रसारणम् । हल इति दीर्घः । तथादिस्वरः । धमन्तीः । ध्मा शब्दे । शपि प्राघ्रेत्यादिना धामादेशः । वा छन्दसीति जसः सवर्णदीर्घः । शतुर्लसार्वधातुक स्वरे कृते धातुस्वरः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः